This page has not been fully proofread.

तथा लक्ष्य रूपे कथानके राम-प्रवासो नाम तृतीयः सर्गः-
वृद्धिः । तदेवाविरुद्धबुद्धित्वं दर्शयन्नाह - शुक्कोत्तरासङ्गभृतः शुक्लो य उत्तरा-
सङ्गः उत्तरीयं तं बिभ्रतीति क्विप् । विशस्त्रान् निरायुधान् । पादैरापतत आग-
च्छतो मुक्तवाहनत्वात् । शनैर्न त्वरया । प्रमन्यून् प्रकृष्टशोकान् आगतशोकान्
वा। विवन्दिपून् वन्दितुमिच्छून् ॥
 
१३१ - स-मूल-कापं चकषू रुदन्तो
रामऽन्तिकं बृंहित-मन्यु - वेगाः ॥
आवेदयन्तः क्षिति- पालमु॑च्चैः-
-
 
कारं मृतं राम-वियोग-शोकात् ॥ ४९ ॥
 
-
 
समूलेत्यादि - ते रामान्तिकं रामसमीपं प्राप्ताश्चकपुः पिष्टवन्तः । समू-
लकापं समूलं कषित्वा भूमेरधोभागमुत्खन्य । '३३५५ । निमूल समूलयोः कषः
। ३ । ४॥३४॥ इति कषेर्णमुल । '३३६७। कपादिषु यथाविध्यनुप्रयोगः ।३।४।४।१
रुदन्तः रोदनं कुर्वन्तः बृंहितमन्युवेगा विवृद्धशोकवेगाः । '७८६ । बृहि॰वृद्धौ ।'
इत्यस्य रूपम् । रामवियोगशोकात् कारणात् क्षितिपालं दशरथमुञ्चैःकारं कृत्वा ।
मृतं निधनंगतं आवेदयन्तः । '३३८१ । अव्यये यथाभिप्रेताख्यान-१३।४।५९।१
इति कृजो णमुल । एतद्यथाभिप्रेताख्यानमिति नीचैराख्यातुमभिप्रेतत्वात् उच्च-
रावेदयन्ति ॥
 
१३२ - चिरं रुदित्वा करुणं स-शब्द
गोऽभिधायं सरितं समेत्य ॥
 
मध्ये- जलाद् राघव-लक्ष्मणाभ्यां
 
प्रतं जलं व्यञ्जलम॑न्तिकेऽपाम् ॥ ५० ॥
 
-
 
चिरमित्यादि – चिरं महान्तं कालं करुणं समन्यु सशब्दं प्रतिकृत्य रुदि-
त्वा । '२६१७ । र लो-व्युपधाद्धलादेः-।१।२।२६ ।' इति कित्त्वे विकल्पिते २६०९ ।
रुद - विद । १।२।८।' इत्यादिना कित्त्वम् । सरितं समेत्य नदीं संभूय गत्वा ।
मध्येजलात् जलस्य मध्यात् तस्माद्वा स्नात्वोत्थाय अवतीर्य । ल्यब्लोपे पञ्चमी ।
'६७२ । पारे मध्ये षष्ठ्या वा ।२।१।१८। इत्यव्ययीभावः । अपञ्चम्या इति
प्रतिषेधात् अम्न भवति । नाव्ययीभावादिति लुक्प्रतिषेधश्च । राघवलक्ष्मणा-
भ्याम् । अपामन्तिके समीपे जलं प्रत्तं दत्तम् । '३०७८। अच उपसर्गात्तः ।७।४।
४७ ।' गोत्राभिधायं नामाभिधायम् । '३९० । द्वितीयायां च १७१२१८७१' इति
णमुल । व्यञ्जलमिति अञ्जलिपरिच्छिन्नम् । जलमञ्जली द्वौ विगृह्य । तद्धितार्थे
समासः '८०४ । द्वि- त्रिभ्यामञ्जलेः ।५।४।१०२ ।' इति टच् । ताभ्यां प्रत्येकमञ्ज-
लिमदानात् द्वावजली प्रमाणमस्येत्यस्मिन्वाक्ये प्रमाणप्रत्ययस्य प्रमाणे लुक् द्विगो-
नित्यमिति लुक् । ततः समासान्तो न प्राप्नोति । अतद्धितलुकीत्यधिकारात् ॥