This page has not been fully proofread.

भट्टि- काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण रूपे तृतीय वर्गः,
 
-
 
म्यः । चित्रकूटे रामोऽस्तीति श्रुतरामवार्ताः । चित्रकूटनामानमा पर्वतं प्रति ।
'५५२॥ लक्षणेत्थम्भूनाख्यान-११।४।१०।' इत्यादिना कर्मप्रवचनीयसंज्ञा ।
'५४८ । कर्मप्रवचनीययुक्त - ।२।३।८।' इति द्वितीया । तं लक्ष्यीकृत्य आनंहिरे
जग्मुः । अंहतेलिंटि द्विवचनम् । '२१७९। हलादिः शेषः ।७।४।६।' । '२२४८।
अत आदेः ।७।४।७०।' इति दीर्घः । ८२२८८ तस्मान्नुड् द्विहल: ७ि४।७।
इति नुट् । विशिञ्जानपतन्त्रिसंघं कूजत्पक्षिगणम् । अभ्रंलिहाग्रं अभ्रस्पृशिख-
रम् । '२९४७ । वहाऽभ्रे लिहः । ३॥२॥३३ ।' इति खश् । '२९४२ । अरुद्विपत्-
॥५॥४॥५१॥ इत्यादिना मुम् । रविमार्गभङ्गम् । उच्चैस्तत्वात् वेर्मार्गभगो यस्मि
अनाविति ॥
 
१२९ -
 
इत्यादि-बलौघा
 
वानान् ककुभो बघान्
वितत्य शार्ङ्ग कवचं पिना ॥
तस्थौ सिसंग्रामयिषुः शितेषुः
सौमित्रिरक्षि- भ्रुवमु॑जिहानः ॥ ४७ ॥
सौमित्रिस्तस्थौ स्थितः । अभ्यासस्य '२२५९॥
दार्पूर्वाः खयः ।७।४।६१॥ इनि खयः शेषः । कीदृशः । ककुभो दिश ऊर्णुवानान्
आच्छादयतः । ऊर्णोतेरदा दिकस्योभयपदिनः शानचि उवङादेशे च रूपम् ।
शार्ङ्गशृङ्गस्य विकार धनुर्वितत्य आरोपितगुणं कृत्वा । '३३३४ । वा ल्याप
।६।४।३८।' इत्यनुनासिकलोपः । कवचं पिना बवा । '१२४१॥ गहँ बन्धने ।'
इत्यस्य ल्यपि । अपिशब्दाकारलोपस्तु - 'वष्टि भागुरिरह्योपमवाप्योरुपसर्गयोः ।
धाञ्कृञोस्तनिनह्योश्च बहुलत्वेन शौनकिः ॥ इति । सिसंग्रामयिपुः संग्रामयि-
तुमिच्छुः । '२०७१। संग्राम युद्धे ।' इति चौरादिको णिच् । तदन्तस्य सनि प्रथ-
मस्यैकाचो द्विवचनम् । शितेपुः तीक्ष्णशरः । अक्षिणी च भ्रुवौ च अक्षिश्रुवम् ।
'९४५ । अचतुर–१५॥४॥७७।' इत्यत्र निपातितः । उज्जिहानः ऊर्ध्वं नयन् । '११६४॥
ओ हा-ङ् गतौ ।' इत्यस्य जुहोत्यादिकस्य '२४९६ । भृजामित् ।७।४।१७६३
इतीत्वम् ॥
 
-
 

 
१३० - शुक्कोत्तरासङ्ग भृतो वि-शस्त्रान्
पादैः शनैरापततः ग्रं-मन्यून् ॥
औहिष्ट तान् वीत विरुद्ध-बुद्धीन्
 
-
 
विवन्दिषून् दाशरथिः स्व-वर्ग्यान् ॥ ४८ ॥
शुक्लेत्यादि - दाशरथिस्तान् स्ववर्ग्यान् स्ववर्गे भवान् । '१४४३। अशब्दे
यत्खौ ।४।३।६४।' इति यत् । आत्मीया अपि कदाचित् दुष्टबुद्धयो भवन्तीत्या-
ह - वीतविरुद्धबुद्धीन् । औहिष्ट ऊहितवान् । ऊहतेरात्मनेपदिनो लुहि आट्
 
१ - 'स-मन्यून्' इति पाठान्तरम् ।