This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम तृतीयः सर्ग:-
वत्यः । ननृतुः सहावं सशृङ्गारचेष्टं नर्तितवत्यः । सविभ्रमं नेमुः सविलासं
प्रणताः । उदारमूचुः अग्राम्यमुक्तवत्यः ॥
 
१२६ – वस्त्राऽन्न पानं शयनं च नाना
- -
कृत्वाऽवकाशे रुचि - संप्रकृतम् ॥
तान् प्रीति - मानह मुनिस् ततः स्म
 
'निवध्वमा॑ध्वं, पिवऽत्त शेध्वम् ॥ १४ ॥
वस्त्रेत्यादि — ततो वनितोपस्थानानन्तरमवकाशे प्रदेशे यथाभिमते वस्त्रान्न-
पानम् । सर्वो द्वन्द्वो विभापैकवद्भवतीत्येकवद्भावः । शयनमित्यधिकरणे ल्युट् ।
नाना कृत्वा पृथक् कृत्वा । रुचिसंप्रक्लृप्तम् । यस्य यावदभिरुचितं तत्तथैव संपा-
दितम् । '२३५० । कृपो रो लः ।८।२।१८।' । प्रीतिमान्मुनिस्तान् भरतादीनाह
स्म उक्तवान् । किमाह - निवध्वं परिधत्त वस्त्राणि । '१०९२ । वसँ आच्छादने ।'
इत्यस्य विधौ लोट् । '५२ । झलां जश् झशि ।८।४।१३॥ इति सकारस्य दुकारः ।
आध्वं उपविशत । आसे: पूर्ववत् दादेशः । अत्त खादत अन्नादिकम् । '१०८० ।
अ भक्षणे ।' इत्यस्मात् लोट् । पानादिकं पिबत । पिबतेः '२३६०। पा-ध्रा-
१७१३।७८ ।' इति सूत्रेण पिबादेशः । शेध्वम् स्वपित शयने । सर्वत्र विधौ लोट् ॥
१२७ ते भुक्तवन्तः सु-सुखं वसित्या
वासांस्यु॑षित्वा रजनीं प्रभाते ॥
द्रुतं समध्वा रथ-वाजि - नागैर्
 
मन्दाकिनीं रम्य वनां समीयुः ॥ ४५ ॥
 
ते भुक्तेत्यादि — ते भरतादयः सुसुखमिति क्रियाविशेषणम् । भुक्तवन्तः
सन्तो वासांसि । वसित्वा परिधाय । रजनीमुषित्वा रजनीं रात्रि । ३०४६।
वसति-क्षुधोः-।७।२।५२।' इतीट् । '५५८। कालाऽध्वनोः । २।३।५।' इति द्वि-
तीया । द्रुतं शीघ्रं प्रभाते मन्दाकिनीं नदीं समीयुः संभूय गताः । समध्वा
अविच्छिन्नाध्वानः । सङ्गता अध्वन इति प्रादिसमासः । १९५३। उपसर्गादध्वनः
।५।४।८५।' इति समासान्तष्टच् । रथवाजीति द्वन्द्वैकवद्भावः । तेन सहिता
नागा इति शाकपार्थिवादित्वात् समासः । अन्यथा सेनाङ्गत्वात् समुदायस्यैकव-
द्भावः स्यात् । रम्यवनां रमणीयकाननां रमणीयजलां वा ॥
 
१२८ - वैखानसेभ्यः श्रुत-राम-वार्तास्
ततो विशिञ्जान-पतत्रि-सङ्घम् ॥
अभ्भ्रं लिहाऽग्रं रवि-मार्ग-भङ्गम्
 
आनंहिरे ऽद्रिं प्रति चित्रकूटम् ॥ ४६ ॥
वैखानसेत्यादि — ततो मन्दाकिनीगमनानन्तरं वैखानसेभ्यस्तृतीया श्रमि-