This page has not been fully proofread.

भट्टि काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण रूपे तृतीयो वर्गः,
योगविभागाद्वा । कीदृशम् । अध्यापयन्तं पाठयन्तम् । कान् वाचंयमान् मौनत्र-
तान् । '२९५६ वाचि यमो व्रते ।३।२।५०।' इति खच् । '२९५७ । वाचंयम पु-
रंदरौ च ।६।३।६९ ।' इति निपातनात् पूर्वपदस्य अमन्तता । स्थण्डिलशायिनः
भूशायिनः ।'१२१६। स्थण्डिलाच्छयितरि व्रते ।४।२।१५। इति णिनिः । युयुक्ष-
माणान् योक्तुमिच्छतः । योगाभ्यासनिष्ठानित्यर्थः । अनिशमविच्छेदेन मुमुक्षुन् ।
मोक्षाभिलाषिण इत्यर्थः । अतएव योगाभ्यासमिच्छन् ॥
 
६४
 
१२५ - आतिथ्यमे॑भ्यः परिनिर्विवप्सोः
कल्प- द्रुमा योग-वलेन फेलुः ॥
धाम - प्रथिम्नो नदिमाऽन्वितानि
 
वासांसि च द्राघिम-वन्त्युहुः ॥ ४२ ॥
आतिथ्यमित्यादि — अतिथ्यर्थमातिथ्यमन्नपानादि । '२०९४। अतिथेर्ग्यः
।५।४।२६॥ एभ्यो भरतादिजनेभ्यः इति संप्रदाने चतुर्थी । परिनिर्विवप्सो: निर्व-
सुमिच्छोः । दातुमिच्छोरित्यर्थः । निर्पूर्वो वपिड़ोंने वर्तते । धामप्रथिनः । धाम्ना
तेजसा प्रथिमा पृथुत्वं यस्य । तेजसो बहिर्निर्गतत्वात् शरीरस्य पृथुत्वं जायते ।
तस्य भरद्वाजमुनेर्यागवलेन समाधिबलेन । '१२५३ । युज समाधौ ।' इत्यस्य रूपम् ।
कल्पद्रुमाः फेलुः फलिताः । भक्ष्यान्नपानादिकमित्यर्थः । '२३०३ । तृ-फल-भज-
त्रपश्च] । ६ । ४ । १२१' इत्येत्वमभ्यासलोपश्च । वासांसि च वस्त्राणि उद्द्दुः उद्बह-
न्ति स्म । यजादित्वात् संप्रसारणम् । दिमान्वितानि मृदुत्वमुपगतानि । द्वाधि-
मवन्ति दैर्घ्ययुक्तानि । पृथुमृदुदीर्घशब्देभ्यस्तस्य भाव इत्यर्थे '१७८४ । पृथ्वा-
दिभ्य इमनिच्–।५।१॥२२।' । पृथुमृदुशब्दयोः (१७८५५ र ऋतो हलादेः । ६-
।४।१६१॥ इति रादेशः । दीर्घशब्दस्य '२०१६ । प्रिय स्थिर - १६६४।३५७ ।' इत्या-
दिना द्वाघादेशः पश्चान्मतुप् ॥
 
१२५ - आज्ञां प्रतीपुर्, विनयादुपास्थुर्
जगुः सरागं, ननृतुः स-हावम् ॥
स - विभ्रमं नेमुरुंदारर्मूचुस्
 
,
 
तिलोत्तमाऽऽद्या वनिताश्च॑ तस्मिन् ॥ ४३ ॥
 
आशामिति – तस्मिंस्तपोवने तिलोत्तमाद्या वनिता दिव्यस्त्रियः आगता
आज्ञामादेशं मुनेः प्रतीपुः प्रतीष्टवत्यः । चेटीभवत्य इत्यर्थः । प्रतिपूर्व इषिग्रहणे
वर्तते तस्य लिटि रूपम् । विनयादुपास्थुः उपस्थिताः । पादप्रक्षालनादिदानेन
उपस्थानं कृतवत्यः । उपपूर्वात्तिष्ठतेर्लुङि सिच् । '२२२३ । गाति-स्था । २।४।७७१'
इति सिचो लुक् । '२२२६ । सिजभ्यस्तविदिभ्यश्च ।३।४।१०९।' इति शेर्जुस् ।
'२२१४ । उस्यपदान्तात् ।६।१।९६ ।' इति पररूपम् । जगुः सरागं सरकं गीत-