2023-02-15 17:21:53 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य रूपे कथानके राम-प्रवासो नाम तृतीयः सर्गः-
६३
कियन्तमपि कालमारमन्ति स्म । '२७७९। व्याङ्- परिभ्यो रमः । १।३।८३ ।' इति
परस्मैपदम् । अशङ्कं विस्रब्धम् । छायां समाश्रित्य विशश्रमुः विश्रान्ताः ॥
१२१ - संप्राप्य तीरं तमसाऽऽपगाया
गङ्गाऽम्बु- सम्पर्क - विशुद्धि-भाजः ॥
विगाहतुं यामुनम॑म्बु पुण्यं
ययुर् निरुद्ध श्रमवृत्तयस् ते ॥ ३९ ॥
संप्राप्येत्यादि–तमसापगायाः तमसाख्यायाः आपगाया: नद्याः । 'अत्य-
वि- चमि- तमि-नमि-रभि-लभि-तपि-पति-जनि-पणि-गहि-भ्योऽसच्'
। यस्याः
स्मरणात्पापं ताम्यति सा तमसा । तरसा इति पाठान्तरम् । तत्र तरसा वेगेन
आपगाया अर्थात्तमसाया नद्या गङ्गाम्बुसम्पर्कात् विशुद्धिं पवित्रतां भजते या तस्या-
स्तीरं कूलं सम्प्राप्य गत्वा ते जना निरुद्धश्रमवृत्तयः ययुः गताः । गङ्गेति गन्
गम्यद्योरित्यौणादिको गन् । विगाहितुं विगाहिष्यामह इति कृत्वा । यामुनमम्बु
यमुनाया इदं यमुनासम्वन्धि जलम् । पुण्यं पुण्यहेतुत्वात् पुण्ययुक्तत्वाद्वा ॥
१२२ - ईयुर् भरद्वाज-मुनेर् निकेतं,
यस्मिन् विशश्राम समेत्य रामः ।
च्युताऽशनायः फलवद्-विभूत्या
व्यस्यन्नु॑दन्यां शिशिरैः पयोभिः ॥ ४० ॥
ईयुरित्यादि
— भरद्वाजमुनेर्निकेतं आश्रममीयुः गताः । '२४५५। इणो यण्
।६।४।८१॥ इति यत्वम् । अभ्यासस्य '२४५६ । दीर्घ इणः किति १७१४/६९ ।
इति दीर्घत्वम् । यस्मिन्निकेते रामो विशश्राम विश्रान्तः । समेत्य मिलित्वा ।
तमीयुर्जना इति योज्यम् । फलवद्विभूत्या फलवतां वृक्षाणां समृद्ध्या हेतुभूतया
च्युताशनायोऽपगतबुभुक्षः । '२६६१ । अशनायो – ।७।४।३४।' इत्यादिना निपा-
तितः । व्यस्यन् उदन्यां वारयन् । असेदेवादिकस्य रूपम् । उदन्यां पिपासां
शिशिरैः शीतलैः पयोभिः ॥
१२३ - वाचं यमान् स्थण्डिल-शायिनश च
यु॒यु॒क्षमाणा निशं मुमुक्षून् ॥
अध्यापयन्तं विनयात् प्रणेमुः
पना भरद्वाज-मुनिं स-शिष्यम् ॥ ४१ ॥
वाचमित्यादि – ते भरद्वाजमुनिं सशिष्यं शिष्यैः सह वर्तमानं प्रणेमुः प्रण-
मन्ति स्म । विनयात् विनयेन । अत एव पदाः पदातयः पादाभ्यां गच्छन्तीति ।
'३०११। अन्येष्वपि दृश्यते ।३।२।१०१॥ इति डः । '९९२ । हिमकाषिहतिषु
च । ६।३।५४।' इति चकारस्य अनुक्तसमुच्चयार्थत्वात् गमोत्तरपदे पदादेशः । पदिति