This page has not been fully proofread.

तथा लक्ष्य रूपे कथानके राम- प्रवासो नाम तृतीयः सर्गः -
 
."
 
११६ - उदक्षिपन् पट्ट-दुकूल-केतू-
न॑वादयन् वेणु-मृदङ्ग - कांस्यम् ॥
कम्बूश च तारानंघमन् समन्तात्,
तथाऽऽनयन् कुङ्कुम- चन्दनानि ॥ ३४ ॥
 
उदेत्यादि पदुकूलविरचितान् केतून् ध्वजानुदक्षिपन् उच्छ्रितवन्तः ये
नियुक्ताः । क्षिपेस्तौदादिकस्य ग्रहणम् । वेणुमृदङ्गकांस्यं वंशमुरजकांस्यतालमवा-
दयन् वादितवन्तः । वर्ण्यन्तस्यैव प्रयोगः । '९१० । जातिरप्राणिनाम् ॥२॥४॥६॥'
इत्येकवद्भावः । न पुनस्र्याङ्गत्वात् । तत्र हि प्राणिनां तूर्याङ्गाणां द्वन्द्वैकवद्भावः ।
यथा मार्दङ्गिकपाणविकमिति । 'वृ-तृ-वदि-हनि - कामे-कषि-भ्यः सः ।' इत्यौणा-
दिकः कंसशब्दः । तदर्थाय हितं कंसीयम् । त्रपुणा दृढद्रव्यम् । प्रकृतिविकार-
भावे छः । तस्य विकार इति । '१५४७॥ कंसीय परशव्ययोर्यजजौ लुक् च
४।३।१६८।' इति छस्य लुक् यञ् च प्रत्ययः । कम्वून् शङ्खान् । तारान् उच्चै-
स्वरध्वनीन् । अधमन् शब्दितवन्तः । '२३६० । पा घ्रा ।७।३।७८।' इत्यादिना
i
धमादेशः । तथा कुकुमचन्दनानि आनयन् आनीतवन्तः । सर्वत्र लङि रूपम् ॥
अन्त्येष्टिं दर्शयन्नाह --
 
११७ - श्रोत्राऽक्षि - नासा वदनं स-रुक्म
 
कृत्वाऽजिने प्राक्-शिरसं निधाय ।
सञ्चित्य पात्राणि यथा-विधान-
६१
 
मृत्विग् जुहाव ज्वलितं चिताग्निम् ॥ ३५ ॥
श्रोत्रेत्यादि
— अजिने कृष्णसारचर्मणि प्राकू पूर्व शिरो मूर्धा यस्येति तं
प्राकूशिरसं शवं निधाय स्थापयित्वा पश्चात् श्रोनाक्षिनासावदनम् । प्राण्यङ्ग-
त्वादेकवद्भावः । वृत्तृवदीत्यादिसूत्रस्यानन्तरं 'नयतेरा चेति प्रकृतेराकारे नासेत्यौ-
णादिकं रूपम् । सरुक्मं ससुवर्ण कृत्वा । सञ्चित्य विन्यस्य अङ्गप्रत्यङ्गेषु । पात्राणि
स्रुगादीनि । यथाविधानं यादृशं विधानमुक्तं गृह्यशास्त्रे । ऋत्विग्याजकः । ऋतौ
यजनीति '३७३ । ऋत्विग्-दष्टग्- ।३/२/५९।' इत्यादिना निपातितः । ज्वलितं
चिताभिम् । ज्वलनं चितं तदर्थमनिं जुहाव जुहोति स्म ॥
११८ - कृतेषु पिण्डोदक-सञ्चयेषु,
 
हित्वाऽभिषेकं प्रकृतं प्रजाभिः ॥
प्रत्यानिनीपुर विनयेन रामं
प्रायादरण्यं भरतः स पौरः ॥ ३६ ॥
 
-
 
कृतेष्वित्यादि — पिण्डोदकदानास्थि सञ्चयेष्वनुष्ठितेषु प्रजामिः प्रकृतं प्रस्तु-
तमभिषेकम् । आदिकर्मणि क्रः। हित्वा त्यक्त्वा । '३३३१॥ जहातेच क्त्वि । ७।४।४३ । '
भ० का०६