This page has not been fully proofread.

भट्टि- काव्ये – प्रथमे-प्रकीर्ण-काण्डे लक्षण-रूपे तृतीयो वर्गः,
 
केकय्युपज्ञम् । केकय्याः प्रथमतो ज्ञातं नान्यस्य कस्यचित्पूर्व ज्ञातम् । उपज्ञायत
इत्युपज्ञम् । '२८९८ । आश्चोपसर्ग ।३।१।३३६।' इति स्त्रियाम । कुलक्षणा
षष्ठी । केकय्या उपज्ञेति समासः । '८२४ । उपज्ञोपक्रम ।२।४।२१॥ इति नपुं-
सकता । बत कष्टम् । बह्वनथं बहुदोपम् । शमरणाद्यनिष्टानां सम्भवात् ॥
भरतकृत एवायं प्रयोग इत्येतत्परिहरन्नाह -
११४ - नैतन् मतं मत्कमि॑िति ब्रुवाण
सहस्र - शो ऽसौ शपथान॑शप्यत् ॥
उद्वाश्यमानः पितरं स रामं
 
लुठ्यन् स-शोको भुवि रोरुदावान् ॥ ३२ ॥
नैतदित्यादि — यदेतत्केकय्यनुष्ठितं मतमभिप्रायः । न मत्कृतं तत् । नाह-
मस्य ग्रामणीर्न प्रभुरिति । अस्मच्छब्दात् '१८७८॥ स एषां ग्रामणीः ।५।२।७८ ।
इति कन् । '१३७३ । प्रत्ययोत्तरपदयोश्च ।७।२।१८॥ इति मपर्यन्तस्य मादेशः ।
नास्मन्मताढनुष्ठितमनयेत्यर्थः । इत्येवं बुवाणः सहस्रशो बहुवारानसौ भरतः
शपथान् सम्प्रत्ययकारणवचनानि अशष्यत् कृतवान् । अनेकार्थत्वाद्धातूनां शपे-
र्देवादिकस्य उभयपदिनो लङि रूपम् । उद्वाश्यमानः आह्वयन् । '१२३८ वाट
शब्दे ।' देवादिकः अनुदात्तेत् । पितरं सरामं हा तात ! हा रामेति । लुख्यन्
भुवि लुठन् । '१३०१ । लुं विलोडने ।' देवादिकः परस्मैपदी । सशोक इनि
शाठ्यपरिहारार्थम् । रोरुदावान् अत्यर्थं रोदनं कुर्वन् । यङन्तात् '३२७९। अप्र-
त्ययः ।३।३।१०२।' इत्यकार: । '२३०८। अतो लोपः ।६।४।४८।' '१२६३३॥ यस्य
हलः ।६॥४।४९।' स्त्रियामष्टाप् । सा विद्यते यस्येति मतुप् ॥
 
११५ - तं सुस्थयन्तः सचिवा नरेन्द्र
दि॒िधक्षयन्तः समुदूहुरा॑रात् ॥
अन्त्यऽऽहुतं हावयितुं स - विप्राश्
चिचीषयन्तोऽध्वर- पात्र - जातम् ॥ ३३ ॥
 
तमित्यादि – सचिवा अमात्याः । कार्येषु सचन्ते समवयन्तीति सचेरिव -
चित्यौणादिक इवन् । तं भरतं सुस्थयन्तः सुस्थं कुर्वाणाः । तत्करोतीति णिच् ।
नरेन्द्रं दशरथं । समुदूहुः उद्वाहितवन्तः । शिबिकायामारोप्य । वहिरन्तर्भावि-
तण्यर्थोऽत्र द्रष्टव्यः । यजादिश्वात्सम्प्रसारणम् । आरात् नातिदूरे । दिधक्षयन्तः
दुग्धुमिच्छन्तं भरतं प्रयोजितवन्तः । दहेः सनि '३२५ । दादेर्धातोर्घः ।८।२।३२॥ '
भष्भावचवें । प्रयोजकव्यापारे णिच् । अन्ते विनाशे भवा या आहुतिः ।
*१४२९। दिगादि-।४।३।५४ । इति यत् । तामन्त्याहुतिं हावयितुमभौ प्रक्षे-
प्रयितुं । सविप्राः ब्राह्मणैः सहिताः सचिवाश्चिचीषयन्तः चेतुं निधातुमिच्छन्तः
प्रयोजितवन्तः । किं तत् । अध्वरपात्रजातं यज्ञोपयोगिपात्राणां खुवादीनां समूहम् ॥