This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम तृतीयः सर्गः-
ठञ् । पिता ते म्लानस्त्वां द्रष्टुमिच्छतीति आत्ययिकं वचनम् । तमिति '५४०१
गति-बुद्धि-।१।४।५२।' इत्यादिना कर्मसंज्ञा । शृणोतेः शब्दकर्मध्वात् अर्थमिति ।
'५३५ । कर्तुरीप्सितत । १।४।४९। इत्यनेन । प्रयियासयन्तः प्रयातुमिच्छन्तं
भरतं प्रयोजितवन्त: । सन्नन्तण्यन्तोऽयम् । तदा असौ भरतो जाताञ्जिहिषः ।
जाता अञ्जिहिषा गमनेच्छा यस्य सः । १९३३ । अहिं गतौ ।' '२२६२ । इदितो
नुम्-।७।१।५८।' तस्मादंहितुमिच्छतीति सन् । इद । २१७६ । अजादेर्द्विती-
यस्य । ६।१।२।' इति हिशब्दो द्विरुच्यते । नकारस्य २२४६ । नन्द्रा:- ६॥११३।'
इति प्रतिषेधः । अभ्यासकार्यम् अनुस्वारपरसवणौं । ' ३२७९ । अः प्रत्ययात
।३।३।१०२।' इत्यकारप्रत्ययः । टाप् ! आंहिष्ट गतवान् । तस्मादेवात्मनेपदिनो
लुङ् । उत्कण्ठमानः स्मरन् । '२७२ । माठ्' २७३ । अठं शोके ।' इत्यस्मादात्म-
नेपदिनो रूपम् । अनेकार्थत्वाद्धातूनाम् । गुरूणां पितामहादीनाम् । '६१३॥
अधीगर्थ-।२।३।५३।' इति कर्मणि षष्ठी ॥
 
१०८ – वन्धून॑शङ्कष्ट समाकुलत्वा-
ददा॑से॒दुषः स्नेह-वशाद॑पायम् ॥
गोमायु-
सारङ्ग-गणाश् च सम्य
 
"
 
वन्धूनित्यादि – दुःस्वप्नदर्शनेन
 
ना॑ ऽयासिषुर्, भीमम॑रासिषुश्च॑ ॥ २६ ॥
अकस्माच पितृदूतागमनेन स्नेहवशाद
चेतसि समाकुलत्वाद्भरतो बन्धूनशकिष्ट शक्तिवान् । उत्प्रेक्षितवानित्यर्थः । शङ्क-
तेरात्मनेपदनो लुङि रूपम् । कीदृशान्
- आसेदुष: अपायं विनाशं गतवतः ।
'३०९७ । भाषायां सद-वस - ।३।२।१०८।' इत्यादिना वसुः । '२२६० । अत
एक-हल्र-।६।४।१२०।' इत्येत्वाभ्यासलोपौ । अस्मद्वन्धुः कश्चित् व्यसनमापन्नो-
ऽभूदिति । गच्छतस्तस्य गोमायुसारङ्गगणाः शृगालमृगगणाश्च सम्यगनुकूलं
नायासिपुः नागताः । यातेर्लुङि '२३७७ । यम-रम- ।७।२।७३ ।' इति सगिटैौ ।
शृगाला: प्रदक्षिणं गताः मृगाश्च सव्यमित्यर्थः । भीममुद्वेगकरमरासिषुः रसिताः ।
रसेः परस्मैपदिनो लुङ् । '२२८४ । अतो हलादेः ।७।२।७।' इति वृद्धौ रूपम् ।
न रासे: तस्यात्मनेपदित्वात् ॥
 
१०९ - स प्रोषिवानैत्य पुरं प्रवेक्ष्यन्
शुश्राव घोषं न जनौघ-जन्यम् ॥
आकर्णयामास न वेद-नादान्,
 
न चौपलेभे वणिजां पणाऽयान् ॥ २७ ॥
 
स इत्यादि –स भरतः प्रोषिवान् मातामहकुलात् प्रोषितः सन् । '३०९७१
भाषायां - ।३।२।१०८ ।' इत्यादिना वसुः । यजादित्वात् सम्प्रसारणं द्विवचनम् ।
'३०९६ । वस्त्रेकाजासां ।७।२।७।' इति इद । पुरमयोध्यामेत्य आगत्य प्रवे-