This page has not been fully proofread.

-
 
भट्टि- काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे तृतीयो वर्गः,
१०५
- ताः सान्त्वयन्ती भरत- प्रतीक्षा
तं वन्धु ता न्यक्षिपदा॑शु तैले, ॥
दूतांश्च॑ राजा॒ऽऽत्मजमा॑निनीषून्
प्रास्थापयन् मन्त्रि मतेन यूनः ॥ २३ ॥
 
"
 
ता इत्यादि - बन्धुता बन्धुसमूहः । १२५१ । ग्राम-जन-बन्धुभ्यम्तल
।४।२।४३।' ता महिपी: सान्त्वयन्ती संस्थापयन्ती । सान्त्वं करोतीति णिच् ।
तं दशरथं मृतं तैले न्यक्षिपत् निक्षिप्तवती । आशु शीघ्रं । मा भूत्यूनिरिति ।
क्षिपेर्लुङ् । '२३४३ । पुपादि-।३।१॥५५॥ इत्यङ् । कस्मात्तमक्षिपदित्याह - भर-
तप्रतीक्षा तेन संस्कारः कर्तव्य इति सा भरतं प्रतीक्षते । 'ईक्षि-क्षमिभ्यां च ।'
इत्युपसंख्यानाण्णः । दूतान् प्रास्थापयत् प्रहितवती । राजात्मजं भरतमानिनी-
षून् आनेतुमिच्छून् । अन्यया केकयी वैमुख्याद्भरतेऽपि वैमुख्याता अपनाने-
तुमिच्छन्ति । तत्रापि मन्त्रिमतेन न स्वमतेन । यूनः तेषां गन्तुं समर्थत्वात् ॥
१०६ - 'सुप्तो नभस्तः पतितं निरीक्षां-
चक्रे विवस्वन्तम॑धः स्फुरन्तम् ॥
आख्यद् वसन् मातृ-कुले सखिभ्यः
पश्यन् प्रमादं भरतो ऽपि राज्ञः ॥ २४ ॥
सुप्त इत्यादि - भरतोऽपि मातृकुले वसन् सखिभ्यो मित्रेभ्यः आख्यत् कथि-
तवान् । ख्यातेर्लुङ् । '२४३८ । अस्यति वक्ति ।३।१।५२।' इत्यादिना अङ्ग ।
क्रियाग्रहणं कर्तव्यमिति संप्रदानसंज्ञायां चतुर्थी । किमाख्यदित्याह- अहं सुप्तः सन्
नभस्तो नभस्तलात् आकाशात्पतितं विवस्वन्तमादित्यं स्फुरन्तं चलन्तं निरीक्षांचत्रे
निरीक्षितवान् । ईक्षे: '२२३७ । इजादेः-।३।१।३६।' इत्याम् । उत्तमविषये सुप्त-
प्रमत्तावस्थायां चित्तव्याक्षेपात् परोक्षे लिट् । पश्यन् विलोकयन् । राज्ञो दशर-
अस्य । प्रमादमनिष्टम् ॥
 
१०७ - अशिश्रवन्नत्ययिकं तमे॑त्य
 
दूता यदा ऽथं प्रयियासयन्तः ॥
आंहिष्ट जाताऽञ्जिहिषस् तदा ऽसा -
यु॑त्कण्ठमानो भरतो गुरूणाम् ॥ २५ ॥
अशीत्यादि – दूता एत्य आगत्य भरतमातृकुलमित्यर्थः । आपूर्वादिणः
क्त्वाप्रत्ययस्य ल्यपि तुकि च रूपम् । यदा तं भरतमर्थं वचनमशिश्रवन् श्रावि-
तवन्तः । अर्थयतेऽनेनेति णिच् घञ्च । शृणोतेर्ण्यन्ताल्लुङ '२३१५॥ चङि
।६।१।११।' इति द्विर्वचनम् । '२५७८ । स्रवति-शृणोति - ।७।४।८१ । इत्यभ्यास-
स्येत्वम् । आत्ययिकम् अत्ययो विनाशः स प्रयोजनमस्येति तदस्य प्रयोजनमिति