This page has not been fully proofread.

५४ भट्टि- काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे तृतीयो वर्गः,
 
१०० - सूतो ऽपि गङ्गा-सलिलैः पवित्वा
सहा॒ऽऽश्वमा॑त्मानम॑नल्प-मन्युः
स-सीतयो राघवयोरधीयन्
 

 
श्वसन् कदुष्णं पुरमा॑विवेश ॥ १८ ॥
 
सूत इत्यादि
— सूतोऽपि सुमन्त्रः सहाश्वमश्वैः सह । अनल्पमन्युः प्रवृद्ध-
शोकः । राघवयोः रामलक्ष्मणयोः । '१८८। रूपाणां ॥२।६॥ इत्येकशेषः ।
समीतयोः सीतासहितयोः । अधीयन् स्मरन् । '११२० । इक् स्मरणे ।' इत्यस्य
शतरि रूपम् । यणादेशः । ६१३ । अधीगर्थ । २ ।३।५२॥ इति कर्मणि पष्टी ।
श्वसन् । कटुष्णं ईषदुष्णम् । १०३३ । कवं चोणे । ६।३।१०७१' इति चकारात्
कदादेशः । गङ्गातटाव्यतिनिवृत्य पुरमयोध्यामाजगाम आगतवान् । गङ्गासलिलैः
आत्मानं बाह्यमाभ्यन्तरं च पवित्रीकृत्य । '३०५०। पूच ।७।२।५॥ इति विक-
ल्पेनेट् । '२०५१। पू: क्त्वा च ॥।२।२२।' इति कित्त्वप्रतिषेधात् गुणः ॥
१०१ - प्रतीय सा पूर् दहशे जनेन
 
द्यौर् भानु - शीतांशु - विनाकृतैव ॥
राजन्य नक्षत्र समन्विता ऽपि
शोका॒ऽन्धकार-क्षत- सर्व चेष्टा ॥ १९ ॥
 
-
 
-
 
प्रतीयेत्यादि - जनेन रामानुयायिना प्रतीय प्रतिनिवृत्य । पूरयोध्या दहशे
दृष्टा । कर्मणि लिट् । प्रतीय इति ईङ् गतावित्यस्य रूपं न पुनरिणः । तस्य हि
तुकि प्रतीत्येति स्यात् । '३३३३ । षत्वतुकोरसिद्धः ।६॥।८६ ।' इत्येकादेशस्या-
सिद्धत्वात् । प्रतियुषा सा दहशे इति पाठान्तरम् । प्रतिनिवृत्तेन मा पूर्ददृशे
दृष्टेत्यर्थः । अस्मिन् पाठे तु '३०९८ । उपेयिवान् ।३।२।१०९।' इत्यादिना इण:
कसौ रूपं दृष्टव्यमत्रोपसर्गस्यातन्त्रत्वात् । शोकोऽन्धकार इव शोकान्धकारः ।
तेन क्षता नीतानुष्ठेयकर्मणि चेष्टा परिस्पन्दो यस्यां पुरि सा तथोक्ता । राज्ञो-
उपत्यानि । '११५३। राज-श्वशुराद्यत् ।४।१।१३७ ।' राजन्याः क्षत्रियाः । ११५४॥
ये चाभावकर्मणोः।६।४।१६८।' इति प्रकृतिभावः । राजन्याः नक्षत्राणीव तैः
समन्वितापि द्यौः भानुशीतांशुविनाकृतेव धौराकाशः यथा नक्षत्रसमन्वितापि
रात्रौ भानुचन्द्राभ्यां विनाकृता रहिता अन्धकारच्युतसर्वचेष्टा तद्वत्यापि भानु-
चन्द्रस्थानीययोः राघवयोर्विरहात् ॥
 
१०२ - विलोक्य रामेण विना सुमन्त्र-
म॑च्योष्ट सत्वान् नृ-पतिश् च्युताऽऽशः ॥
मधूनि नैषीद् व्यलिपन् न गन्धैर्,
मनो-रमे न व्यवसिष्ट वस्त्रे ॥ २० ॥
 
-