2023-02-15 17:21:52 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम तृतीयः सर्गः-
मढ़ादेशः । अन्यं भरतं मा दर्शत मा द्रष्टारः स्थ । अपि तु योऽहं स एव भरतः
स च प्रतिष्ठितः राज्यं पालयिष्यतीत्येव न्यगादीत् । दृशेर्माङि लुङ् । '२२६९॥
इरितो वा ।३।१।५७ ।' इत्यङ् । '२४०६। ऋ-दृशोऽङि गुणः ।७।४।१६।' निवर्तय
रथमिति सूतं च सुमन्त्रमाह स्म । '२७७८ । लट् स्मे ।३।२।११८।' इति लट् ।
'२४५० । बुवः पञ्चानाम् ।३।४।८४।' इत्याहादेशः । तिपो गलू ॥
९८ - ज्ञात्वैङ्गितैर् गत्वरतां जनाना-
मैकां शयित्वा रजनीं स-पौरः ॥
रक्षन् वने-वास - कृताद् भयात् तान्
प्रातश छलेना॑ ऽपजगाम रामः ॥ १६ ॥
ज्ञात्वेत्यादि – निवर्तध्वमित्युक्ते ये तत्रानिवृत्ताः तेषां जनानां रामो गत्व-
रतां गमनशीलतां ज्ञात्वा । '३१४४ । गत्वरश्च ।३।२।१६४।' इति निपातितः ।
तैरिङ्गितैरभिप्रायसूचकैश्चेष्टितैः । इङ्गर्भावे निष्टा । वनेवास इति सप्तमीति
योगविभागात् समासः । '९७६ । शय-वास- वासिषु ।६॥३।१८॥ इति विभाषा-
सप्तम्या अलुक् । तेन कृतात्सिंहादिभयात् रक्षन् पालयन् तान् पौरान् सपौरः
पौरै:
: सह एकां रजनीं शयित्वा । ८५५८। काला ध्वनोः- २।३।५।' इति द्वितीया ।
शयित्वेति '३३२२॥ न क्त्वा सेट् ।१।२।१८॥ इति । कित्त्वप्रतिषेधात् गुणो
भवति । प्रातः प्रातःकाले । छलेन सन्ध्यावन्दनादिव्याजेन अपजगाम
गतवान् ॥
९९ - अस्राक्षुरस्रं करुणं रुवन्तो,
मुहुर्मुहुर् न्यश्वसिषुः कवोष्णम् ॥
हा राम ! हा कष्टमिति ब्रुवन्तः
पराङ्-मुखैस् ते न्यवृतन् मनोभिः ॥ १७ ॥
अस्त्राक्षुरित्यादि- ते पौरा राममपश्यन्तः । करुणं रुवन्तो विलपन्तः ।
' ११०७। रु शब्दे ।' इत्यस्य शतरि रूपम् । अत्रम् अश्रु । अस्राक्षुः मुक्तवन्तः । सृजे-
स्तौदादिकस्य परस्मैपदिन: सिचि '२४०५। सृजि शोः- १६॥१॥५८ ।' इत्यम् ।
हलन्तलक्षणा वृद्धिः । ३२८ । चोः कुः । ८।२।३०।' । '१३१ । खरि च ।८।४।१५।
इति चर्खम् । मुहुर्मुहुः भूयोभूयः कवोष्णमीषदुष्णमन्तःसन्तापात् ।१०३३॥
कवं चोणे । ६॥ ३ । १०७ ।' इति कोः कवादेशः । न्यश्वसिपुः । श्वसेर्लुङ् । '२२-
९९। इयन्त ।७।२।५।' इत्यादिना श्वसेर्वृद्धिप्रतिषेधः । '२२८४ । अतो हलादे-
घोः ।७।२।७।' इति विकल्पस्य प्राप्तत्वात् । हा राम हा कष्टं कृच्छमिति ब्रुवन्तः ।
परामुखै: येन गतो `रामस्तेन गतैर्मनोभिरित्थंभूतैः । न्यवृतन् निवृत्तवन्तः ।
—२३४५॥ लुङ ।१।३।९॥ इति परस्मैपदविकल्पात् । चुताढिव्वादङ् ॥