This page has not been fully proofread.

५२
 
भट्टि-काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे तृतीयो वर्गः,
 
रूपम् । यः सर्वदा सर्वकालम् । १९६४ । सर्वैकान्य ।५।३।१५।' इत्यादिना दाम-
त्ययः । यश्चापुपत् पुष्टवान् । स्वपोषं धनेनास्मानपुपत् । पुषेर्लुङि रूपम् । '२३-
४३ । पुपादि-।३॥५५।' इत्यङ् । '३३३१ । स्वे पुषः ।३॥४।१०।' इति णमुल ।
'७८३ । अमैवाव्ययेन ।२।२।२०।' इति समासः । '२८२७ । यथाविध्यनुप्रयोगश्च
।३।४।१४॥' तस्य पितुः संबन्धिनो महोपकारस्य किमस्ति मोक्षः प्रत्युपकारो नैवेनि
भावः । केनेत्याह—तुच्छेन असारेण वनस्य यातेन । यातेभावे ल्युट् । वनस्येति
शेषसामान्ये षष्टी । कुलक्षणायास्तु षष्ठ्या गत्यर्थकर्मणि चतुर्थ्या बाध्यमानत्वात् ॥
 
०६ - विद्युत् प्रणाशं स वरं प्रनष्टो,
यद्वौर्ध्व-शोषं तृण-वद् विशुष्कः ॥
अर्थे दुरापे किमुत प्रवासे
 
न शासने sवास्थित यो गुरूणाम् ॥ १४ ॥
 
विद्युदित्यादि — अर्थे कार्य विशेषे दुरापेऽपि कृच्छ्रप्राप्येऽपि । '३३०५ । ईप-
हुः सुषु ।३।३॥२६।' इत्यादिना खल । गुरूणां यच्छासनमादेशः तस्मिन् यो नावा-
स्थित नावस्थितवान् । अवपूर्वात्तिष्ठतेर्लुङ् । '२६८९। समव–११।३।२२।' इत्यादिना
तङ् । '२३८९। स्था-व्वोरिच्च ।१।२।१७।' इति कित्वमित्वं च । '२३६९ । ह्रस्वा-
दङ्गात् ।८।२।२७।' इति सिचो लोपः । स वरं विद्युत्प्रणाशं प्रनष्टः । विद्युदिवो-
स्पयनन्तरमेव विनाशं गतः । ३३६६ उपमाने कर्मणि च ।३।४।४५।' इति
चकारात् । '३३६४ । कर्त्रार्जीव-पुरुषयोः ।३।४।४३।' इत्यतः कर्तृग्रहणानुवृत्तौ कर्तृ-
वाचिनि विधुच्छन्द उपपदे णमुल । '२२८७ । उपसर्गादसमासे - ।८।४।१४।
इत्यादिना णत्वम् । यद्वेत्यथवा । स ऊर्ध्वशोपं तृणवद्विशुष्कः । '३३६५। ऊर्ध्वे
झुषि-1३।४।४४।' इत्यादिना णमुल । उभयत्रामैवेत्यादिना समासः । '२८२७॥
यथाविध्यनुप्रयोगश्च ।३।४।१४॥ किमु प्रवासे किम्पुनः प्रवासविषये यच्छासनं
तत्र तावदनवस्थितस्य सुतरामेव पूर्वोक्तं प्रयुज्यते ॥
 
९७ - पौरा ! निवर्तध्वमिति न्यगादीत्,
'तातस्य शोकाऽपनुदा भवेत, ॥
मा दर्शताऽन्यं भरतं च मत्तो, '
निवर्तये॑त्या॑ह॒ रथं स्म सूतम् ॥ १५ ॥
 
पौरा इत्यादि – हे पौरा: ! यथागतं निवर्तध्वम् । विधौ लोद । इति तान्
न्यगादीत् उक्तवान् । रामः । गदेः '२२८४ । अतो हलादेः ।७।२।७।' इति वृद्धिः ।
'२२६६ । इट इंटि ।८।२।२८।' इति सिचो लोपः । तातस्य पितुः । शोकापनुदाः
शोकस्यापहर्तारो भवेत । तुन्दशोकयोरित्यादिना कः । भवतेर्विधौ प्रार्थनायां वा
लिङ् । मध्यमपुरुषबहुवचनम् । भरतं च मत्तो मत्तः सकाशात् । अस्मदः १९-
५३॥ पञ्चम्यास्तसिल ।५।३।७।' । '१३३७ । प्रत्ययोत्तरपदयोश्च ।७।२।९८ ' इति