This page has not been fully proofread.

तथा लक्ष्य रूपे कथानके राम-प्रवासो नाम तृतीयः सर्गः-
-
 
९३ - 'गतो वनं वो भवितेति रामः, '
शोकेन देहे जनता ऽतिमात्रम् ॥
धीरास् तु तत्र च्युत-मन्यवो ऽन्ये
दधुः कुमाराऽनुगमे मनांसि ॥ ११ ॥
 
गत इत्यादि – श्व आगामिनि दिवसे वनं गतो रामो भवितेति तास् ।
जनता जनसमूहः । '१२५११ ग्राम-जन-बन्धु । ४।२।१३।' इत्यादिना तळ । देहे
दग्धा । कर्मणि लिट् । '२२६० । अत एकहल । ६।४।१२०।' इत्येत्वाभ्यासलोपौ ।
गत इति भूतकालः श्वो भवितेति भविष्यत्कालेन संबध्यमानः साधुः । '२८२४ ।
धातु-संबन्धे प्रत्ययाः ।३।४ । १ । इति । ये तु तन्त्र वीराः ते च्युतमन्यवो विगत-
शोकाः सन्तः कुमारानुगमे कुमारस्य पश्चागमननिमित्तं मनांसि दधुः कृतवन्तः ।
राममनुब्रजाम इति । निमित्तात्कर्मसंयोगे सप्तमीति । मनांसीति कर्मणा
योगात् ॥
 
.3
 
९४–प्रस्थास्यमानायु॑पसेदुषस् तौ
शोशु॒च्यमानानंदमू॑च॒तुस् तान् ॥
'किं शोचतेहा॑ ऽभ्युदये वता॑ ऽस्मान्
नियोग-लाभेन पितुः कृतता॒ऽर्थान् ॥ १२ ॥
 
3
 
प्रस्थेत्यादि – तौ रामलक्ष्मणौ प्रस्थास्यमानौ गमिष्यन्तौ । १२६८९ । सम-
व-प्र-वि-भ्यः स्थः ।१।३।२२।' इति तङ् । जनान् इदं वक्ष्यमाणमूचतुः उक्तवन्तौ .
ब्रुवीत्यर्थग्रहणात् बचेर्द्विकर्मकता । उपसेदुषस्तौ ढौकितवतः जनान् । '३०९७
भाषायां वद-वस ——।३।२।१८० ।' इत्यादिना वसुः । शोशुच्यमानानू अत्यर्थं शोकं
कुर्वतः । भृशार्थे यङ् । किमूचतुरित्याह– किं शोचतेति । हे जनाः ! कस्मादस्मान्
शोचत परिदेवयध्वम् । विधावपूर्वार्थप्रकाशने लोट् । इहाभ्युदये बतशब्दो
विस्मये । तस्मिन् आश्चर्यभूते अभ्युदये वृद्धौ सत्याम् । कुत इत्याह - पितुर्नि
योगलाभेन वनगमनाज्ञालाभेन कृतार्थान् लब्धप्रयोजनान् । कृतार्थत्वादशोच्या
वयमित्यर्थः ॥
 
3
 
९५ - असृष्ट यो, यश्च॑ भयेष्वरक्षीद्,
यः सर्वदा ऽस्मानपुषत् स्व-पोषम्,
महोपकारस्य किम॑स्ति तस्य
तुच्छेन यानेन वनस्य मोक्षः, ॥ १३ ॥
 
असृष्टेत्यादि — असृष्ट जनितवान् । सृजेंदँवादिकस्यात्मनेपदित्वात् लुङि
रूपम् । न तौदादिकस्य परस्मैपदत्वात् '२४०५। सृजि-दृशोः- १६।१।५८ ।' इत्यम् ।
यश्च भयेषु सत्सु अरक्षीत् पालितवान् । '७०६। रक्ष पालने ।' इत्यस्य लुङि