This page has not been fully proofread.

भट्टि- काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-रूप तृताया वगः,
 
मनुष्टितं तथा भरतो राज्येऽभिषिच्यतामिति भरताभिषेको मतौ मनसि निच-
निखातः । कर्मणि लिट् । '२३६३ । गमहन । ६।४।१८।' इत्यादिना उपधा
लोपः । तथा विपाड़ः शङ्कुरित्र शल्यमिव निचरने । ज्येष्टत्वात् नायं समभिपि-
च्यत इति विपाः । संग्रामकिल परिश्रान्तमानतं दशरथं केकयी परिचचार ।
तेन परितुष्टेनोक्तं किं ते दास्यामीति । सा प्राह यदार्थयिष्यते तदा यूयं दास्यथेति ।
सा तदवसरं बुद्ध्वा वरद्वयं प्रार्थितवती । एको रामस्य वनगमनं द्वितीयो राज्ये
भरतोऽभिषिच्यतामिति ॥
 
९१ - ततः प्रवित्राजयिषुः कुमार-
मददस्या॑ ऽभिगमं वनाय ॥
सौमित्रि - सीताऽनुचरस्य राजा
सुमन्त्र - नेत्रेण रथेन शोचन् ॥ ९ ॥
 
तत इत्यादि – केकयी प्रार्थनानन्तरं राजा कुमारं रामं प्रविवाजयिषुः प्रव्रज-
न्तमेनं प्रव्राजयितुमिच्छुः । जेर्हेनुमण्ण्यन्तात्सन् । अस्य कुमारस्य । रथेन वना-
भिगममभिगमनम् । '३२३४ । ग्रह-वृ-ह-निश्चि-गमश्च ।३।३।५८ ।' इत्यप् । आदि-
क्षत् आदिष्टवान् । अस्येति कर्तरि पष्टी । वनायेति । १५८५ गत्यर्थकर्मणि-।२।३
।१२।' इति चतुर्थी । सौमित्रिसीतानुचरस्य लक्ष्मणसीतासहायस्य । सुमित्राया
अपत्यम् । बाह्लादित्वादिञ् । सहचरत्वेनाभ्यर्हितत्वात् पूर्वनिपातः । अनु पश्चाच्च-
रतीति अनुचरः । '२९३१ । भिक्षा-सेनादायेषु च । ३।२।१७।' इति चकारस्थानु-
तसमुच्चयार्थत्वात् टः । अनुचरश्चानुचरी च । '९३३ । पुमान् स्त्रिया ।१।२।६७ ।
•तावनुचरौ सौमित्रिसीते अनुचरौ सहायौ यस्य । कालापिकास्ततोऽन्यत्रापि
पठन्ति अनधिकरणोपपदे चरेष्ट इत्यर्थः । नीयतेऽनेनेति नेत्रं लोचनम् । '३१
६२ । दानी ।३।२।१८२।' इत्यादिना हुन् । सुमन्त्रनामा रथवाहको नेत्रमिव
यस्य रथस्य तद्वशात्तस्य प्रवृत्तेः । शोचन् परिदेवयमानो राजा ॥
 
९२ - केचिन् निनिन्दुर् नृपर्म-प्रशान्तं,
विचुक्रुशुः केचन सा॒ऽस्रमु॑च्चैः ॥
ऊचुस् तथा ऽन्ये भरतस्य मायां,
धिक् केकीमत्यपरो जगाद ॥ १० ॥
 
केचिदित्यादि — राज्ञा वनगमने समादिष्टे सति केचिजना नृपं निनिन्दुः
कुत्सितवन्तः। '६८। णिदिं कुत्सायाम् ।' अप्रशान्तं वृद्धभावेऽपि स्त्रीवशम् ।
केचन केचित्सास्रं सबाप्पमुच्चैः सुष्टु विचुक्रुशुः सुतरामाक्रन्दितवन्तः । तथान्ये
भरतस्य मायां शाठ्यमूचुः उक्तवन्तः । तत्कृतोऽयं प्रयोगो येनात्मरक्षणार्थ माता-
महनिवासे स्थित इति । अपरो धिक्केकयीं ययैवमनुष्ठितमिति जगाद गदितवान् ।
'धिगुपर्यादिषु त्रिषु' इति धिग्योगे द्वितीया ॥