This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम तृतीयः सर्गः-
३।६७ ।' इति मुम् । कुमारो यस्य स प्रियंभविष्णुः । यस्यापि प्राक् मियो न
जातः पश्चादपि तथैव न प्रियो भूतः स नासीत् न बभूव ।
 
८४ - ततः सुचेतीकृत
पौर-भृत्यो
 
-
 
'राज्ये ऽभिषेक्ष्ये सु॒त॑मि॑त्य-नीचैः ॥
आघोषयन् भूमि-पतिः समस्तं
भूयोऽपि लोकं सुमनीचकार ॥ २ ॥
 
४७
 
-
 
तत इत्यादि — ततः प्रियंभविष्णुताया अनन्तरं भूमिपतिर्दशरथो लोकं
सुमनीचकार । किमयं सम्यक् पालयिष्यति न चेति असुचेतसः पौरा भृत्याश्च
जाता: ते सम्यक्पालनात् सुचेतसः कृता येन स सुचेतीकृतपौरभृत्यः ।
भूयोऽपि पुनरपि लोकं समस्तं सुमनीचकार । कथमित्याह
– राज्ये राजकर्मणि
पालनलक्षणे सुतं रामं अभिषेक्ष्ये तदभिषेकं करिष्यामीति । मिचेरुभयपदित्वा-
त्तङ् । अनीचैर्महता ध्वनिना । आघोषयन् घोषणां कारयन् । सुचेती सुमनीश-
दौ २१२१॥ अरुर्मन /५/४/५१।' इत्यादिना साधू ॥
 

 
८५ - आदिक्षादीप्त - कृशानु- कल्पं
सिंहासनं तस्य स-पाद-पीठम् ॥
सन्तप्त - चामीकर - वल्गु-वज्रं
विभाग - विन्यस्त - महार्घ रत्नम् ॥ ३ ॥
 
.
 
आदिशदित्यादि — तस्य रामस्य सिंहासनमादिक्षत् आदिष्टवान् एवंविधं
कारयेति । दिशेः स्वरितेतो लुङि '२३३६ शल इगुपधात्- ।३।१।४५।' इत्यादि-
ना च्ले: क्सः । अकर्तृगामिक्रियाफलत्वात्तिप् । आदीप्तकृशानुकल्पं ज्वलिताग्नि-
तुल्यम् । तस्य कारणमाह– सन्तप्तचामीकरवर्णानि उत्तप्तसुवर्णवर्णानि वज्राणि
यस्मिन् । तथा विभागेषु विन्यस्तानि अतिमहार्वाणि रत्नानि पद्मरागादीनि
यत्र । सपादपीठं सह पादपीटेन ॥
 
८६ - प्रास्थापयत् पूग - कृतान् स्व-पोषं
पुष्टान् प्रयत्नाद् दृढ - गात्र बन्धान् ॥
स - भर्म - कुम्भान् पुरुषान् समन्तात्
पत्काषिणस् तीर्थ-जहा॒ऽर्थमा॑शु ॥ ४ ॥
 
प्रास्थेत्यादि – तीर्थजलार्थ पुरुषान् प्रयत्नात् आदरेण । समन्तात् सर्वासु
दिक्षु । आशु शीघ्रं प्रास्थापयत् प्राहिणोत् । प्रपूर्वस्तिष्ठतिर्गमने वर्तते तस्य हेतुम-'
ण्ण्यन्तस्य लङि रूपम् । पूगकृतान् अपूगाः पूगाः कृता इति । 'श्रेण्यादिषु च्व्यर्थ -
 
१ टीकनं ( टिप्पणं ) नोत्सहे कर्तु प्रवासे नायकस्य मे ॥