This page has not been fully proofread.

भट्टि- काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे द्वितीयो वर्ग,
अथेत्यादि — अथेत्यानन्तर्ये । बलं दाशरथम् । तूर्ण शीघ्रम् । '३०६९४
रुप्यमत्वर - ।७।२।२८।' इत्यादिना पक्षे इडभावः । '२६५४/ ज्वर त्वर-
।६।४।२०।' इति वकारोपधयोरूड् । '३०१६ । र दाभ्याम्-१८।२॥४२ इति
नत्वम् । अयोध्यामायात् आगतम् । आङ्पूर्वाद्याङि रूपम् । पुरुर्महान्
वैगो जवः तेन योगात् । पूर्यते वर्धते इति पुरुः । 'कुर्भश्च' इत्यधिकृस 'पू
मिदि-व्यवि -' इत्यादिना कुप्रत्ययः । दूरसंस्थं दूरे सन्तिष्ठत इति कः । उवीं-
विभागम् । नेदयन् अन्तिकं कुर्वन् । अन्तिकशब्दात् समीपत्राचिन: तत्कशेतीति
णिच् । इष्टवद्भावात् '२०१४ । अन्तिक बाढयोनंदसाधौ ।५।३।६३।' इति
नेदादेशः पश्चालट् । शतरि शप् अयादेशः । प्राप्तं विषयीकृतं चोवि
भागं भूविभागम् । अतिरयेण अतिवेगेन । दवयत् दूरीकुर्वत् पश्चाद्धा-
गेन । दूरशब्दात् पूर्ववण्णिचि इष्टवद्भावे च ' २५१५ । स्थूल-दूर - १६॥४॥
१५६।' इत्यादिना यणादिपरलोपः पूर्वस्य च गुणः । पश्चात्तथा एव लडादयः ।
कुमरहितम् अपगतश्रमम् । अचेतत् कियहूरमागतोऽहमित्यबुध्यमानम् ३
'३९ । चिती " संज्ञाने ।" इत्येतस्य शतरि रूपम् । अनीरजा नीरजाः कारि-
तेति '२१२१॥ अरुर्मन- १५॥४॥५१॥ इत्यादिना च्वावन्त्यलोपः । ८२३१८ ।
अस्य च्वौ ।७।४।३२' इतीत्वम् । नीरजीकारिता क्षमा भूमिर्यस्यामयोध्यायां
ताम् । सिक्कसंमृष्टभूतलामित्यर्थः । उपहितशोभाम् छत्रध्वजपताकाभिरारोपि-
तशोभाम् ॥
 
४६
 
इति श्री जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री भट्टिकाव्ये -
प्रथमे प्रकीर्ण-काण्डे लक्षण रूपे द्वितीयः परिच्छेदः ( वर्गः )
तथा लक्ष्य रूपे कथानके श्री सीता-परिणयो नाम
द्वितीयः सर्गः पर्यवसितः ।
 
तृतीयः सर्गः-
-
 
८३ - चधेन संख्ये पिशिताऽशनानां
क्षत्रा॒ऽन्तकस्या॑ ऽभिभवेन चैव ॥
आढ्यंभविष्णुर् यशसा कुमारः
प्रियंभविष्णुर् न स यस्य ना॑ऽऽसीत् ॥ १ ॥
 
वधेनेत्यादि — संख्ये संग्रामे पिशिताशनानां राक्षसानाम् । पिशितं मांसम्
अशनं येषामिति । तेषां वधेन हननेन । '३२५३ । हनश्च वधः ।३।३।७६ ।' इति
अप् प्रत्यये वधादेशः । कृत्प्रयोगे कर्मणि षष्ठी । क्षत्रान्तकस्य परशुरामस्य ।
अभिभवेन पराजयेन च ' ३२३२ । ऋोरप् ।३।३।५७ ।' चैवशब्दो निपातसमु-
दायः समुच्चये । तेन हेतुभूतेन । यशसा आढ्यंभविष्णुः । अनाढ्य आढ्यो भूतः ।
'२९७४ । कर्तरि भुवः । ३।२।७५७७ ॥ इति खिष्णुच् । २९४२ । अरुद्विषत् । ६.