This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके सीता-परिणयो नाम द्वितीयः सर्गः-
। ४ । ३॥२०।' इत्यण् । वाक्यं वचनम् । यदा दर्पण मदेन हेतुना स जामद-
इयः नाजीगणत् न गणितवान् । '१९९६ । गण संख्याने ।' इत्यस्यादन्तत्वान
वृद्धिः । २३१५ । चङि ।६।१।१५।' इति द्विवचनम् । ८२५७३ । ई च गणः ।
।७।४।१७।' इति अभ्यासस्येकारः । तदा कुमारो रामो धनुर्व्यकाक्षत् आकृ-
टवान् । '१०५९॥ कृप आकर्षणे ।' स्पृशमृशेत्यादिनोपसंख्यानेन सिचि पक्षे
रूपम् । हलन्तलक्षणा वृद्धिः । ८२९५॥ ष-ढोः कः सि ।८१२॥४१॥ इति
ऋत्वम् । कृतदारकर्मापि पुत्रः पितरि जीवति कुमार इति व्यपदिश्यते ।
गर्भयतीति गर्भ: । गुरुर्खाणो गर्यो यस्य धनुपः । लोकांश्च स्वप्रभावाद्विजि-
तान् । तस्य परशुरामस्य । अलावीत् छिन्नवान् । लुनातेर्लुङि सिचि वृद्धौ
रूपम् । समुच्छिद्यन्तामस्य लोका इति अमोघमस्त्रं मुक्तवानित्यर्थः । ततःप्रभृति
तस्य सर्वं तेजोऽपहृतम् ॥
 
८१ - जिते नृपडरौ, सुमनीभवन्ति
शब्दायमानान्य॑ - शनैरं - शङ्कम् ॥
वृद्धस्य राज्ञो ऽनुमते बलानि
जगाहिरे ऽनेक मुखानि मार्गान् ॥ ५४ ॥
 
जित इत्यादि - जिते नृपारौ । परशुरामे बलाने सैन्यानि मार्गन् पथः ।
जगाहिरे अवष्टब्धवन्ति । वृद्धय राज्ञो दशरथस्यानुमते सति गच्छतेति । जामद-
यसंरम्भादसुमनांसि सुमनांसि सन्ति सुमनीभवन्ति बलानि । '२१२१ । अरु-
र्मन-१५॥४॥५१॥' इत्यादिना च्वावन्त्यस्य लोपे ' २११८ । अस्य च्वौ ।७।४।३२।'
इतीत्वे रूपम् । शब्दायमानानि । अशनैः सुष्टु शब्दं कुर्वाणानि । एवं जित-
स्तथा जितो नृपारिरिति । '२६७३ । शब्द-वैर - ।३।१।१७।' इत्यादिना क्यङ् ।
अशङ्क निर्भयं जगाहिरे इति क्रियाविशेषणम् । अनेकमुखानि पृथग्भूतानि पूर्व
भयेन बहुलीभूतत्वादनीकानां बहुवचनमिति ॥
 
८२ - अथ पुरु - जव योगान् नेदयद् दूर - संस्थ
दवयदेति - रयेण प्राप्तमुर्वी - विभागम् ॥
क्लम-रहितम॑चेतन् नीरजीकारित-क्ष्मां,
बलमु॑पहित-शोभां तूर्णर्मायादयोध्याम् ॥५५॥
 

 
१ – प्रभूतं प्रचुर प्राज्यमंदभ्रं बहुलं बहु ॥ ११०९ । पुरुहूः पुरु भूयिष्ठं स्फारं भूयश् च-
भूरि च. ।' २ – 'ऽथ शीघ्रं त्वरितं लघु क्षिप्रम॑रं द्रुतम् ॥ ७३ । सत्वरं चरलं तूर्णम-विल
ग्वितमांशु च. ॥" ३ –पद्येऽस्मिन्वृत्तं मालिनी । तलक्षणम्- वामभागीय षड्विंशतितमाङ्क-
(२६) पद्य-टी कनान्तर्द्रष्टव्यम् ।