This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके सीता-परिणयो नाम द्वितीयः सर्गः-
४३
 
हो राजन्यकम्। '१२४६ । गोत्रोक्ष - १४ ।२।३१।' इत्यादिना वृञ् । 'प्रकृत्याके राज-
न्यमनुष्ययुवानः' इति प्रकृतिभावादपत्ययकारलोपो न भवति । हस्तिनां समू-
हो हास्तिकम् । '१२५६ । अचित्त-हस्ति-१४/२।४७ ।' इति ठक् । एषां सेनाङ्गत्वात्
द्वन्द्व एकवद्भावः । तेनाढ्यमुपचितमिति तृतीयेति योगविभागात् समासः । सह
राज्ञेति विगृह्य साकल्यवचने यौगपद्ये वाव्ययीभावः । १६६० । अव्ययीभावे चा-
काले - १६।३।८१॥ इति स-भावः । '६७८। अनश्च - ।५।४।१०८।' इति टच् समा-
सान्तः । अध्वनीनमध्वानमलंगामीति '१८१७ ॥ अध्वनो यत्-खौ ॥२।१६।
११६७१ । आत्माध्यानौ से । ६।४।१६९।' इति प्रकृतिभावः
 
७७ - विशंङ्कटो वक्षसि बाण-पाणिः
संपन्न - ताल-द्वयसः पुरस्तात् ॥
भीष्मो धनुष्मानु॑पजान्वरलि-
रैति स्म रामः पथि जामदग्न्यः ॥
 
K
 
-
 
विशङ्कटेत्यादि — एवमस्य गच्छतः पथि मार्गे । सप्तम्यां '३६८॥ भस्य
टेर्लोपः ।७।११८८।' पुरस्तादग्रतः । १९६६। अस्ताति च ।५।३।४० ।' इति पूर्वस्य
पुरादेशः । रामो जामदयः । जमदग्नेरपत्यं रामोऽयम् । गर्गादिपाठाद्यत् । स
ऐति स्म आगतवान् । पूर्वाद लट् । '७३ । येसु ।६॥१।८९॥ इति
वृद्धिः । विशङ्कटो वक्षसि विशाल उरसि । '१८२९ । वेः शालच्छङ्कटचौ ।५।२।२८।
इति शङ्कटच् । बाणः पाणावस्येति बाणपाणिः । 'प्रहरणार्थेभ्य' इत्यादिना सप्तम्य-
न्तस्य परनिपातः । संपन्नो निप्पन्नो यस्तालवृक्षः स प्रमाणं यस्य स तथोक्तः ।
'१८३८ । प्रमाणे द्वयसच्- । ५।२।३७ ।' भीयते अस्मादिति भीष्मः । 'भियः पुग्वा'
इति औणादिको मक्प्रत्ययः । वा पुगागमश्च । '३१७३ । भीमादयोऽपादाने ॥३॥
४॥७४।' इत्यपादाने साधुः । धनुष्मान् धनुषा युक्तः । संसर्गे मतुप् । जानुनोः
समीपमुपजानु । सामीप्येऽव्ययीभावः । उपजानु अरतिर्यस्य स तथोक्तः प्रल-
म्बबाहुरित्यर्थः ॥
 
७८ - उच्चैरसौ राघवमा॑ह्ववे॑दं
 
धनुः स वाणं कुरु, माऽतियासीः ॥
पराक्रम-ज्ञः प्रिय-सन्ततिस तं
 
नम्रः क्षितीन्द्रो ऽनुनिनीषुरूंचे ॥ ५१ ॥
 
·
 
उच्चैरित्यादि — उच्चैर्ममता ध्वनिना राघवं दाशरथिं एवं वक्ष्यमाणमाहृत
 
१- ११०६ । विशङ्कदं पृथु बृहद् विशालं पृथुलं महत् ।" इति सर्वत्र ना० अ० ।
२ - 'भूम- निन्दा - प्रशंसा सु नित्य- योगेऽति-शायने ॥ संसर्गेऽस्ति - विवक्षायां भवन्ति
 
-
 
मतुवादयः ॥ १ ॥' इति वै० भ० । ३ – 'रामम्' इति वा क्वचित्पाठः ॥