2023-02-15 17:21:50 by ambuda-bot
This page has not been fully proofread.
भट्टि-काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे द्वितीय वर्गः
७५ - लब्धा ततो विश्वजनीन-वृत्तिस्-
तामात्मनीनार्मुदवोढ रामः ॥
सद्-रत्न-मुक्ता-फल-भर्म-शोभां
संबंहयन्तीं रघु-वर्ग्य - लक्ष्मीम् ॥ ४८ ॥
लब्धामित्यादि — ततो दानानन्तरम् लब्धां तामात्मनीनाम् आत्मने हिता-
म्। '१६७०। आत्मन्विश्व- ।५।१।९।' इति खः । रामः उदवोढ । वढेः स्वरितेत्त्वात् कर्तुः
क्रियाफलविवक्षया तङ् । विश्वजनीना विश्वजनाय हिता वृत्तिः प्रवृत्तिर्यस्य रामस्य
सः । पूर्ववत् खः । सती उत्कृष्टा रखादिशोभा यस्याः । तैरलंकृतत्वात् । तां सद्-
वमुक्ताफलभर्मशोभाम् । भर्म स्वर्णम् । सर्वधातुभ्यो मनिन् । 'भर्म भूषाम्' इति
पाठान्तरम् । सद्लादिभूपा अलंकारो यस्या इति योज्यम् । '३२८० । गुरोच हलः
।३।३।१०३।' इत्यकारः । संवहयन्तीं संबहुलामतिस्थिरां कुर्वाणाम् । बहुलश-
व्दात् 'तत्करोति - ' इति णिचि इष्टवद्भावात् '२०१६ । प्रिय-स्थिर ।६।४।१५७१'
इत्यादिना वंहादेशः । पश्चात्तदन्तस्य संपूर्वस्य साधनेन योगः । कामित्याह-
रघुवर्ग्यलक्ष्मीमिति । रघुवर्गे भवां विभूतिम् । '१४४२ । वर्गान्ताच्च ।३।३॥३॥
इत्यनुवृत्तौ '१४४३ । अशब्दे यत्वावन्यतरस्याम् । ४ । ३।६४ ।' इति यत् ॥
७६–सु-प्रातमा॑सादित-संमदं तद्
वन्दारुभिः संस्तु॒तम॑भ्य॒योध्यम् ॥
अश्वीय-राजन्यक-हँस्तिका॒ऽऽढ्य-
म॑गात् स-राजं वलम॑ध्वनीनम् ॥ ४९ ॥
सुप्रातेति - विवाहं निर्वर्त्य प्रभाते अयोध्याभिमुखं तद्दलं दशरथस्यागान्
गतवत् । सुप्रातं निरुपद्रवत्वात् । शोभनं प्रातर्दिनमुखं यस्य बलस्य । '८६०। सु-
प्रात-सुश्व-/५/४/१२०।' इत्यादिना समासान्तष्टिलोपश्च निपात्यते । आसादिनसंमदं
प्राप्तहर्षम् । '३२४५ । प्रमद - संमढ़ौ हर्पे । ३।३।६८।' इति निपातनम् । वन्द्वारुभिः
संस्तुतं कृतस्तवम् । अभ्ययोध्यम् अयोध्याभिमुखम् । '६६८ । लक्षणेनाऽभि-प्रती
आभिमुख्ये ।२।१।१४।' इति अव्ययीभावः । अश्वानां समूहो अश्वीयम्
- १२५७ । केशाश्वाभ्यां यञ्छौ।४॥४८ इति छः । राजन्यानां क्षत्रियाणां समू-
४२
-
२ – ९८० । स्वर्ण सुवर्ण कनकं हिरण्यं हेम हाटकम् । तपनीयं शातकुम्भंगायं भर्म
कर्वुरम् ॥' इति ना० अ० । २ – मुत् प्रीतिः प्रमदो हर्पः प्रमोदाssमोद-संमदाः ॥ १४७
यादा॑न॒न्दथुरानन्दः शर्म-शात सुखानि च. ।' ३ – '८१३ । वृन्दे त्वैश्वीयमाश्व॑वत्' ॥
४–'७६९ । अथ राजकम् । राजन्यकं च नृपति क्षत्रियाणां गणे क्रमात् ॥' ५–८०२
हास्तिकं गजता वृन्दे ॥ ६-७८२ । अध्वनीनोऽध्वगो ध्वन्यः पान्थः पथिक इत्यपि ॥"