This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके सीता-परिणयो नाम द्वितीयः सर्गः-
-
 
विवेक-दृश्व त्वम॑गात् सुराणां,
 
तं मैथिलो वाक्यभिदं बभाषे ॥ ४६ ॥
 
त्रिवर्गेत्यादि – तं दशरथं सैथिलो जनकः वाक्यमिदं बभाषे । ब्रवीत्यर्थ-
हणात् द्विकर्मकता । किं तवाक्यमित्याह – असाविन्द्रो भवन्तम् एकासनमध्या-
सयन् आरोदयन् विवेकश्वत्वमगादिति संबन्धः । आसनस्य १५४२ । अधिशीङ्-
।१।४।४६।' इत्यादिना अधिकरणे कर्मसंज्ञा । भवन्तमिति ५५० गति बुद्धि-
।१।४।१२।' इत्यादिना अस्तेरण्यन्तावस्थायामकर्मकत्वात् पारंगामी त्यस्मिन्याक्ये
'१८१२। अवार-पार - ।५।२।११।' इत्यादिना पारशब्दात् खः । तत्र विगृहीत विपर्य-
स्तग्रहणात् । त्रिवर्गस्य धर्मार्थकामस्य पारीणमिति षष्टीसमासः । त्रिवर्गपारीणं
भवन्तम् । सुराणां मध्ये स एवैको विवेकश्वत्वं विवेकज्ञतासगात् । '२४५८॥
इणो गाङ ।२॥४।४॥२२२३ गति-स्था- । २१४१७७१' इत्यादिना सिचो
लुक् । विवेकं दृष्टवानिति शे: वनिप् ॥
 
७४ - हिरण्मयी साल - लतैव जङ्गमा
 
४१
 
च्युता दिवः स्थास्वा॒ऽचिर-प्रभा ॥
शशाङ्क-कान्तेर॑धिदेवता॒ऽऽकृतिः
 
सुतां ददे तस्य सुताय मैथिली ॥ ४७ ॥
 
.
 
हिरण्मयीत्यादि — तस्य दशरथस्य सुताय रामाय । सूयत इति सुतः ।
'१००७। षु प्रसवैश्वर्ययोः' इत्यस्मात् कर्मणि निष्ठा । सुता मैथिली सीता दढ़े जन-
केनेत्यर्थात् । कर्मणि लिट् । मैथिलस्यापत्यं '१०९५ । अत इञ् ।४।११९५१ तद -
न्तात् '५२०। इतो मनुष्य-जातेः ।४।१॥६५॥ इति ङीप् । रामस्य ज्येष्ठत्वात्तस्यैव
कविना परिणय उक्तः न शेषाणाम् । तेन अन्या अपि तदैव दुहितरो दत्ताः । हिर-
ण्मयी सुवर्णनिर्मितेव साललता वृक्षलता। सुवर्णच्छ विश्वात् तस्याः । हिरण्यविकार
इति मयटि ११४५ । दाण्डिनायन-।६।४।१७४ ।' इत्यादिना यलोपनिपातनम् ।
जंगमा संचारिणी नतु स्थावरा । अत्यर्थ गच्छतीति यङि '२६४३। नुगतः - ।७।४।८५॥'
इति नुक् । यङन्तास्पचाद्यचि '२६५०। यङोऽचि च । २।१४।७४ ।' इति यङो लुक् ।
च्युता दिवः आकाशापतिता । अचिरप्रभेव विधुदिव तेजस्वित्वात् तन्वीत्वाञ्च ।
किन्तु स्थानुरचञ्चला । सा तु चञ्चलेति व्यतिरेकः । '५२१ । अतः ।४।१॥६६॥
इति ऊ न भवति क्रियाशब्दत्वात् । तत्र मनुष्यजातेरिति वर्तते । शशाङ्ककान्ते-
र्याधिदेवता अधिष्ठात्री देवता तस्या आकृतिर्यस्याः । सौम्यत्वात् । आक्रियते अनये-
त्याकृतिः संस्थानम् । '३१८८ । अकर्तरि च कारके - ।३।३।१९।' इति स्त्रियां किन् ।
 
१-~~'आत्म-जस् तनयः सूनुः सुतः पुत्रस्, स्त्रियां त्व॑मी ॥ ५९१ । आहुर् दुहितरं सर्वे
ऽपत्यं तोकं तयोः समे । इति सर्वत्र ना० अ० ।