This page has not been fully proofread.

भट्टि- काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे द्वितीयो वर्गः,
 
क्षिप्रमित्यादि — आख्यान्ति कथयन्ति ये ते आख्यायकान्तेभ्यः
सुनुवृत्तिर्येन स राजा दशरथः । सूयत इति सूनः पुत्रः । 'दाभाभ्यां दुः' इति
वर्तमाने 'सुवः किञ्च' इत्यौणादिको नुप्रत्ययः । ततोऽनन्तरमेव क्षिमं शीघ्रम् ।
'स्फायि तञ्चि-' इत्यादिना रक् । क्रियाविशेषणं चैतत् । मिथिलामगच्छत् ।
भरतशत्रुघ्नाभ्यां सहेत्यर्थादनुषक्तव्यम् । गमेर्लंङि '२४००१ इयु गमि-यमां छः
३७।३।७७।' अध्वानम् अलंगामिनो ये तुरङ्गा अश्वाः ते अध्वन्याः । अहंगामीत्य-
स्मिन्नर्थे '१८१७। अध्वनो यत्-खौ ।५।२।१६।' इति यत् । ११५६॥ ये चाभाव-
कर्मणोः ।६।४।१६८।' इति प्रकृतिभावः । तैः साधु यातीति साधुकारिणी णिनिः ।
अध्वन्यतुरङ्गयायी । एवं च कृत्वा अग्लानयानः न विद्यते ग्लानं ग्लानिर्यम्मि
न्याने तत् अग्लानं । अग्लानं यानं यस्य । तादृशैस्तुरः सुख़यानः । ग्लानेन
भावे निष्ठा । '३०१७। संयोगादेरातः ।८।२।४३।' इति नत्वम् । वृद्धतमोऽपि
यविष्टदन् । युवशब्दस्येष्टाने २०१५ । स्थूल-दूर । ६।४।१५६।' इत्यादिना यणादि-
परलोपः पूर्वस्य च गुणः । पश्चात् '१७७८ । तेन तुल्यम्- ।५।१।११५॥' इति वतिः
 
४०
 
७२ - वृन्दष्ठमचद् वसुधाऽधिपानां
तं प्रेष्ठ गुरु-वद् गरिष्ठम् ॥
सहङ्-महान्तं सुकृताऽधिवासं
 
बंहिष्ठ-कीर्ति यशसा वरिष्ठम् ॥ ४५ ॥
 
वृन्दिष्टमित्यादि – तं राजानमेतमायान्तं जनक आर्चीत् पूजितवान् । अर्च
र्लुङि रूपम् । वृन्दिष्टं वृन्दारकतमम् । प्रशस्ततममित्यर्थः । केषां वसुवाधिपानां
पृथ्वीपतीनाम् । श्रेष्टं प्रियतमम् । गुरुवत् गुरुणा तुल्यं वर्तमानं गरिष्टम् गुस्तम-
म् । सदृक् समानान्ययोश्चेत्युपसंख्यानाद् ः विप् । रूढिशब्दश्चायम् । नाय
दर्शनक्रिया विद्यते । अभिजनादिभिस्तुल्यो जनक इत्यर्थः । महान्तं महानुभावं
सदृशां मध्ये महान्तम् । सुकृताधिवासं सुकृतनिलयम् । अधिवसत्यस्मिन्निति
अधिकरणे घज् । बंहिष्ठा बहुलतमा कीर्तिर्यस्य स बंहिष्ट-कीर्तिः । यशसा वरिष्टं
गुरुतमम् । अत्र वृन्दारकप्रियगुरुबहुलोरूणामिष्टनि यथासंख्यं '२०१६ ।
प्रिय-स्थिर –।६।४।१५७ ।' इत्यादिना वृन्दप्रगहवर इत्येते आदेशा भवन्ति ॥
७३ - त्रि-वर्ग-
पारीणम॑सौ भवन्त-
म॑ध्यासयन्नसन मैकमैन्द्रः ॥
 
१- '११५७। क्षेपिष्ठ-क्षोदिष्ठ-प्रेष्ठ - वरिष्ट स्थविष्ठ- बंहिष्टाः ॥ क्षिप्र क्षुद्रामीप्सित-पृथु-पीवर:-
बहुल-प्रकर्षाऽर्थाः ॥११५८ साधिष्ठ-द्राधिष्ठ-स्फेष्ठ-गरिष्ठ - हसिष्ठ वृदिष्ठाः ॥ बाढव्यायत-बहु-
गुरुचामन-वृन्दारकाऽतिशये ॥" इति ना० अ० । २ – त्रिवर्गो धर्मकामाऽर्थेश चतुर्-वर्ग:
सन्मोक्ष-कैः, ॥ ७६६ । सबलैस् तैश् चतुर्-भगम्. ।'
 
"