2023-02-15 17:21:49 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथान के सीता-परिणयो नाम द्वितीयः सर्गः - ३९
अनेन धनुषा त्रिपुरं दग्धमिति । ग्रहेर्हेतुमण्ण्यन्ताच्चङि णिलोपः । '२३१४१
णौ चङ् – ।७।४।१॥' इति ह्रस्वः । सन्वद्भावाद्वित्वम् । ग्रहेश्च बुद्ध्यर्थत्वात् । '५४०३
गतिबुद्धि-।१।४।५२।' इत्यादिना रामस्य कर्मसंज्ञा । अस्य रामस्य बाह्वोर्भुजयो-
र्बलं जिज्ञासमानो जनकः । एवंभूतं धनुः हसन् स्मयमानो रघुनन्दनो रामः
अभाङ्क्षीत् भग्नवान् । भञ्जेर्लुङि सिचि हलन्तलक्षणा वृद्धिः । तत्र हि हल-
ग्रहणं समुदायप्रतिपत्त्यर्थमित्युक्तम् ॥
७० - ततो नदी ष्णान् पथिकान् गिरि-ज्ञा-
ना॑ह्वायकान् भूमि-पतेर॑योध्याम् ॥
दित्सुः सुतां योध-हरैस् तुरङ्गैर्
व्यसर्जयन् मैथिल- मर्त्य मुख्यः ॥ ४३ ॥
..
तत इत्यादि —–— धनुर्भङ्गादनन्तरं महानयमिति ज्ञात्वा जनकः सुतां दुहितरं
दित्सुः दातुमिच्छुः । ददातेः । '२६२३। सनि मी मा ।७।४।५४ ।' इत्यादिना
अच इस् । द्विर्वचनम् । '२६२०/ अत्र लोप - ।७।४।१८।' इत्यभ्यासलोपः ।
'२३२७ । सः सि–७॥४॥७९॥ इति तत्वम् । '३१४८ । सनाशंस भिक्ष उः ।३।२।
१६८।' भूमिपतेर्दशरथस्य आह्वायकान् आह्वयन्ति आकारयन्तीति कर्तरि बुल ।
' २७६१ । आतो युक्- ।७।३।३॥ कृत्प्रयोगे भूमिपतेः कर्मणि षष्टी । तान्
अयोध्यां व्यसर्जयत् विसर्जितवान् । विपूर्वस्य सृजेर्हे तुमण्ण्यन्तस्य लङि रूपम् ।
गत्यर्थत्वात् द्विकर्मकता । नद्यां स्त्रान्तीति नदीष्णाः । '२९१६ । सुपि स्थः ।३।२।
४ । ' योगविभागात्कः । '२३७२ । अतो लोपः-।६।४।४॥ ३०८२ । नि नदी
भ्यां स्नातेः- ।८।३।७९॥ इति षत्वम् । नदीं तरीतुं कुशलानित्यर्थः । पथिकान्
पथि कुशलान् । '१८६३ । तत्र कुशलः पथः ।५।२।६३॥ इति ठक् । गिरिज्ञान् ।
यथाप्रदेशं गिरिज्ञान् । '२८९७ । इगुपध-।३।१।१३५।' इत्यादिना कः । तुरङ्गैः
अश्वैः करणभूतैः । युध्यन्त इति योधाः । पचाद्यच् । तानाहर्तुं क्षमैः । '२९२४
वयसि च ।३।२।१०।' इत्यच् । हसिमृग्रिण्वामिदमिल पूर्विभ्यस्तन्' इत्यौणादि-
कस्तन् । म्रियन्ते प्राणिनोऽस्मिन्निति मर्त्यो भूर्लोकः । तत्र भवा मर्त्या मनुष्याः ।
'दिगादेराकृतिगणत्वात् यत् । आकृतिगणत्वस्य लिङ्गं 'देवमनुष्यपुरुषपुरुमर्येभ्यः'
इति निर्देशः । मुखमेव मुख्यः प्रधानम् । '२०५८ शाखादिभ्यो यत् । ५।३।१०३।१।
मर्त्यानां मुख्यो मर्त्यमुख्यः । मैथिलश्चासौ मर्त्यमुख्यश्चेति विशेषणसमासः ।
जनक इत्यर्थः ॥
७१ - क्षिप्रं ततो ऽध्वन्य-तुरङ्ग-यायी
यविष्ठ वद् वृद्ध तमो ऽपि राजा ॥
आख्याय केभ्यः श्रुत- सूनु-वृत्ति-
रे - ग्लान- यानो मिथिलामंगच्छत् ॥ ४४ ॥