This page has not been fully proofread.

३८
 
भट्टि-काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-पे द्वितीयो वर्गः,
 
उस द्विचनम् । '२४५६ नन्द्राः - ६ । १।३।' इति नकारस्य प्रतिषेधः । अभ्या-
सकार्यम् । आहिदिति रूपम् । राज्ञां यशांसि निजिवृक्षयिष्यन् निग्रहीतुम-
भिभवितुमेषयिष्यन् । ग्रहे: सन् । '२६१० । सनि ग्रह-गुहोश्च ॥२।१२।
इति इप्रतिषेधः । द्विवचनादि । १६०९ । रुद्र-विद ॥२॥ इत्यादिना सनः
किम् । '२४१२॥ ग्रहि-ज्या । ६।१।१६।' इत्यादिना संप्रसारणम् । ढव्वभप्रभावौ ।
गकारस्य घकारः । कत्वषत्वे । पश्चाण्णिच् । तद्न्ताद्भविष्यत्सामान्यविवक्षायां
लट् । तेन भविष्यद्नद्यतने लुट् न भवति ॥
 

 
>
 
६८ - एतौ स्म मित्रा-वरुणौ किमतौ,
किम॑श्विनौ सोम-रसं पिपासू ॥
जनं समस्तं जनाऽऽश्रम-स्थं
रूपेण तावौजिहतां नृ-सिंहौ ॥ ४१ ॥
 

 
एतावित्यादि – एतौ तत्रागतौ नृसिंहो नरौ सिंहाविव । जनकाश्रमस्थं जनं
रूपेण स्वरूपतया औजिहतां वितर्क कारितवन्तौ । सिंहाविव । '६९५। ऊ वित-
र्के ।' इत्यस्तोः ण्यन्तात् कर्तुः क्रियाफलाविवक्षायां '२५६३ । णिचश्च ।३।३।
६४ ।' इति तङ् न भवति । चङि णिलोपस्य स्थानिवद्भावात् । '२१७६३ अजादेहिं
दीयस्य ।६॥२।' इति द्विवचनम् । ऊहमाह - मित्रावरुणौ आदित्यवरुणौ ।
'९२२ । देवता-द्वन्द्वे च ।६।३।२६।' इत्यानङ् । तयोर्महानुभावत्वात् । मोमरमं
पिपासू पातुमिच्छू । '६२७॥ न लोका- । २।३।६९ । इनि षष्टीप्रतिषेधः । एतावा-
गतौ । आङ्पूर्वस्यैणो निष्टायां रूपम् । किमश्विनौ अश्विनीकुमारौ सोमरमं पिपासू
ताविति । एवं जनम् औजिहताम् । सुशब्दपाठे एतौ सुमित्रति पाठः । गुतो
स्म मित्रेति स्मशब्दो निपातः पादपूरणार्थः ॥
 
६९ - अजिग्रहत् तं जनको धनुस् तद्
'येऽद् दैत्य- पुरं पिनाकी', ॥
जिज्ञासमानो बलम॑स्य बाह्वोर्.
 
हस
 
अजिग्रहदित्यादि – येन धनुषा दैत्यपुरं पिनाकी महादेव आदित् हिंसि-
तवान् । अर्दे: स्वार्थिकण्यन्तात् चङि । '२१७६ । अजादेद्वितीयस्य ।७११।२।' इनि
दिशब्दो विरुच्यते । रेफस्य प्रतिषेधः । तद्धनुः तं रामं जनकः अजिअहत् योधितवान् ।
 
रघुनन्दनस् तत् ॥ ४२ ॥
 
.
 
१ – नृ-सिंहावित्युपमान- पूर्वपदः कर्मधारय समासस्तत्रोदाहरणं समास- कुसुमावल्याम्
'- रामोऽयं पुरुषव्याघ्रः संवृतः कपि-कुंजरैः ॥ हनिष्यति बाद युद्धे रावणं राक्षस-
र्षभम् ॥ १७ ॥' । 'स्युरुत्तरपदे व्याघ्र पुनवर्षभ- कुञ्जराः ॥ ११०५ । सिह-शार्दूल-नागाऽऽथा:
पुंसि श्रेष्ठार्श्वगोचराः ॥" इति ना० अ० ।