This page has not been fully proofread.

तथा लक्ष्य रूपे कथानके सीता-परिणयो नाम द्वितीयः सर्गः-
---
 
महीत्यादि – भवता भूमिः पृथिवी महीय्यमाना पूज्यमाना । अतिमात्रं
सुष्टु सम्यक् पालनाहिवोऽपि स्वर्गस्य न हिणीयते न लज्जते किंतु प्रतिस्पर्धत
इति भावः । '२१३८ । हिणी महीङ्' इति कण्ड्यादिपाठाद्यक् । ङित्वात्तङ् ।
अवयवे कृतं लिङ्ग समुदायस्य विशेषकं भवतीति महीयशब्दात्कर्मणि लकारः ।
शानच् । यक् । अतो लोपः । मुक् । महीय्यमानेति रूपम् । सुराध्वरे सुरानुद्दिश्य
योsध्वरो यज्ञः क्रियते तत्र । वस्मरा: अदनशीला राक्षसाः । '३१४०। सुघ-
स्यदः क्मरच्–३।२।१६०।' तेषां जित्वरेण जयशीलेन भवता । '३१४३ । इण्
नश्-जि-३।२॥१६३।' इत्यादिना करप् । बज्रायुधभूषणायाः शक्र एवालङ्कारो
यस्याः दिवः । वीरवती त्वद्विधो वीरो यस्त्रां भूमाविति ॥
 
संक्षेपेण स्तुतिमाह -
 
६६ वलिर् वबन्धे, जल-धिर् ममन्थे,
जहेऽमृतं, दैत्य-कुलं विजिग्ये, ॥
कल्पाऽन्त दुःस्था वसुधा तथहे
येनैप भारोऽति - गुरुर् न तस्य ॥ ३९ ॥
 

 
वलिरित्यादि – येन भवता बलिर्बबन्धे बद्धः । जलधिर्ममन्थे सथितः ।
मन्दरं दोर्भिगृहीत्वा । '४३ । मन्थ विलोडने ।' इत्यस्य रूपम् । संयोगान्तत्वा-
लिटोsकित्चे अनुनासिकलोपो न भवति । जद्वेऽमृतम् । स्त्रीरूपधारिणा । दैत्य-
कुलं विजिग्ये विजितमनेकधा । '२३३१॥ सन्- लिटोर्जेः ।७।३।५७ ।' इति कुत्वम् ।
'२७२ । एरनेफाचः ।६।४।८२॥ इति यणादेशः । तथा कल्पान्ते प्रलये दुःस्था
दुःस्थिता वसुधा पृथिवी । ऊहे उद्धृता । वराहरूपिणा । वहेर्यजादित्वात् संप्र-
सारणम् । तस्य भवत एष भारो मुनिजनरक्षणम् अतिगुरुर्न भवति । सर्वत्र
कर्मणि लिद ॥
 
६७ - इति ब्रुवाणो मधुरं हितं च
तमा॑जिहन् मैथिल-यज्ञ-भूमिम् ॥
रामं मुनिः प्रीत-मना मखाऽन्ते
यशांसि राज्ञां निजिघृक्षयिष्यन्
 
>
 
॥ ४० ॥
 
इतीत्यादि — इति यथोक्तप्रकारेण मधुरं श्रोत्रसुखं हितं च ब्रुवाणः अभि-
दधानः । '३१०३ । लक्षण हेत्वोः - ३।२।१२६।' इति शानच् । मुनिः प्रीतमनाः
मखान्ते यज्ञावसाने तं रामं मैथिलस्य यज्ञभूमिं आजिहत् गमितवान् मिथि-
लानां राजेति । '११८६ । जनपदशब्दात् क्षत्रियाद ।४।१।१६८।' इत्यत्र तस्य
राजन्यपत्यवदित्यतिदेशादञ् । '६७८। अहिं गतौ ।' '२२६२ । इदितो नुम् - ७॥१॥
५८ ।' प्रयोजकव्यापारे णिच् । लुङ् आटू चङि णिलोपः । '२२४३ । द्विवेचनेऽचि ।
१।१।५९॥ इति स्थानिवद्भावात् '२१७६ । अजादेर्द्वितीयस्य ।६।१।२।' इति हिश-
भ० का० ४