This page has not been fully proofread.

भट्टि- काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे द्वितीयो वर्गः,
 
तृणाय मत्वा रघु-नन्दनो ऽथ
बाणेन रक्षः प्रर्धनान् निरास्थत् ॥ ३६ ॥
 
इत्थमित्यादि – इत्थम् अनेन प्रकारेण प्रवादः अन्योन्याभिधातो यत्र संत्र-
हारे तं संप्रहारं परस्पराभिभवलक्षणं प्रकृतवन्तौ । युधि रणभूमौ । युध्यन्ते
अस्यामिति । सम्पदादित्वादधिकरणे किप् । रामनिशाविहारौ । रामो निशावि-
हारो निशाचरो मारीचश्वेत्यर्थः । निशायां विहारो यस्येति समासः । अथानन्द
रघुनन्दनो रघुवंशस्य नन्दयिता रामो रक्षः मारीचं वाणेन तत्सम्बन्धिनि
सत्यपि तृणाय मत्वा तृणमिव अवमत्य -। '५८४ । मन्यकर्मण्यनादरे- । २।३।१७।'
इति चतुर्थी तत्र प्रकृष्टकुत्सितग्रहणं कर्तव्यम् । इह मा भूत् । तृणं मध्वेति ।
प्रधनात् संग्रामात् निरास्थत् अपनीतवान् ॥
 
६४ - जग्मुः प्रसादं द्विज-मानसानि,
द्यौर वर्षका पुष्प-चयं वभूव ॥
निर-व्याजर्मिज्या ववृते. वचश् च
भूयो बभाषे मुनिना कुमारः ॥ ३७ ॥
 
जग्मुरित्यादि — यागविघ्नकारिपु निरस्तेषु द्विजानां मानसानि मनांस्येव
मानसानि । '२१०६ । प्रज्ञादि - ५१४ । ३८।' इत्यण् । प्रसादम् अव्याकुलस्वं जग्मुः
तानि । '२३६३ ।' गम । ६१२१९८।' इत्युपधालोपः । द्यौः पुष्पचयं वर्षका वर्षण-
शीला बभूव भवति स्म । '३१३४ । लप-पत-पद- ३।२।१५४।' इत्यादिना उकज् ।
'६२७ । न लोका– ।२।३।६९। इति पष्टीप्रतिषेधः । निर्व्याजं निर्विघ्नम् । इज्या
यागः । '३२७५ । ब्रज-यजोर्भावे - ।३।३।९८।' इति क्यप् । ववृते वृतः लिट् ।
भूयः पुनरपि मुनिना गाधेयेन । कुमारः । अकृतदारकर्मत्वात् । वचो वक्ष्य-
माणं बभापे । कर्मणि लिट् । बुवीत्यर्थग्रहणात् द्विकर्मकता । वचः कुमारश्च ॥
 
६५ - महीय्यमाना भवताऽतिमात्रं
सुराऽध्वरे घस्मैर-जित्वरेण ॥
दिवोऽपि वज्राऽऽयुध-भूषणाया
हिणीयते वीरवती न भूमिः ॥ ३८ ॥
 
१ – ८६९ । युद्धमायोधनं
यिकम् ॥' इति ना० अ० ।
भक्षको घस्मरो ऽमरः ।
 
जन्यं प्रधनं प्रविदारणम् ॥ मृधमास्कन्दनं संख्यं समीकं साम्परा-
२ – १२३६ । दन्त- विप्राण्ड=जा द्विजाः ।' ३–'१०६५।
४–१८४२ जेता जिष्णुश च जित्वरः ॥ इति सर्वत्र ना० अ० ।