2023-02-15 17:21:49 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य रूपे कथानके सीता-परिणयो नाम द्वितीयः सर्गः-
३५
प्रकृतेश्च तद्यमिति वचनात् । '६१७ । जासि-निग्रहण । २।३।५६ ।' इत्यत्र सङ्घा.
तविगृहीतविपर्यस्तग्रहणात् षष्ठी प्राप्तापि न भवति । कर्मणः शेषत्वेनाविवक्षि-
तत्वात् । पुरं नगरं प्रेतनराणां मृतनराणाम् । अधिवासमवस्थानं कुर्मः ।
नित्यहननेन स्मशानतुल्यमित्यर्थः । कस्मादेवमित्याह - धर्म इति । दशरथस्यापत्यं
दाशरथिः । '१०९५ । अत इज् ।४।१।१५।' । हे दाशरथे । हि यस्मादर्थे
वर्तते । यस्मादयं धर्मः आचारः । निजो नित्यः । न इत्यस्माकम् । वेदविरुद्ध
इति चेत् - नैवाध्यकारिष्महि वेदवृत्ते । वेदविहितं वृत्तमिति
लोपी समासः
यद् ब्राह्मणानामुक्तमनुष्टानं तत्र वयं नैवाधिकृता
अधिपूर्वात्करोतेः कर्मणि लुङ् । ८२७५७ । स्यसिच्- ।६।४॥६२।' इत्यादिना
चिण्वदि ॥
मध्यमपद -
इत्यर्थः ।
६२ - धर्मोऽस्ति सत्यं तव राक्षसांडय-
मन्यो व्यतिस्ते तु ममा॑ऽपि धर्मः ॥
ब्रह्म - द्विषस ते प्रणिहन्मि येन,
राजन्य-वृत्तिर् घृत कार्मुकेषुः ॥ ३५ ॥
धर्म इत्यादि — रामः प्राह । हे राक्षस रक्ष एव राक्षसः । प्रज्ञादित्वा-
दण् । स्वार्थिका अतिवर्तन्त इति पुँल्लिङ्गता । तवायं पूर्वोक्तः पराभिद्रोहलक्षणो
'धर्मोऽस्तीति सत्यमेतत् किन्तु ममापि रामस्य अन्यो धर्मोऽशिष्टनिग्रहलक्षणो
व्य व्यतिभवते । इदमुक्तं भवति – यद्यप्येवंप्रकारस्त्वद्ध भविष्यति
तथापीदानीमेव या त्वद्धर्मेण विद्यमानतया निष्पाद्या सा अस्मद्धर्मेणैव निष्पाद
कत्वेन व्यतिस्ते । ततश्चान्य सम्बन्धिनीं क्रियामन्यः करोति इतरसम्बन्धिनीमि-
तर इति धर्मव्यतिहारसम्भवात् । अस्तेः '२६८०० कर्मव्यतिहारे ।१।३।१४।
तङ् । तथाहि यो यदवसरे यां कांचित् क्रियां करोति स तत्क्रियाकारीत्युपचा-
राल्लोक उच्यते । येन धर्मेण हेतुना ब्रह्मद्विषस्ते प्रणिहन्मि मारयामि स व्यति-
स्ते इति योज्यम् । '२२८५ । नेर्गद- ।८।४।१७।' इत्यादिना णत्वम् । '६१७॥
जासि-नि- २।३।५६ ।' इत्यादिना कर्मणि षष्ठी। तथा कथं तव धर्म इति चेदाह-
राजन्यवृत्तिरिति । क्षत्रियवृत्तिः । ततो राज्ञोऽपत्यम् । ११५३ । राजश्वशुराद्यत्
।४।१।१३७।'। '११५४। ये च ।६।४।१६८।' इति प्रकृतिभावः । धृतं कार्मुकम् इष-
वश्च येन सः । यतः अहं राजन्यवृत्तिः ततोऽहं धृतकार्मुकेषुरिति । 'धृतकार्मुके
इति पाठान्तरम् । क्व राजन्यवृत्तिः सायुधेष्वित्यर्थः ॥
६३ - इत्थं प्रवादं युधि संप्रहारं
प्रचऋतू राम - निशा - विहारौ ॥
१ – '१३४७ धर्माः पुण्य-यम-न्याय-स्वभावाचा- रसोम-पाः' इति ना० अ० ।