This page has not been fully proofread.

३४
 
भट्ट काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे द्वितीयो वर्गः,
 
-
 
गाधेयेत्यादि — गाधेरपत्यं गाधेयो विश्वामित्रः । यच इत्यनुवर्तमाने
'११२५ । इतश्चानिजः ।४।१२।१२२।' इति ढक् । तेन दिष्टं कथितं मारीचं नाम
राक्षसं रामो जगाद गदितवान् । रसन्तम् वदन्तम् । विरसमश्राव्यमिति
क्रियाविशेषणम् । मायाचणं मायया वित्तम् । अस्त्रचुचुः अस्त्रैः प्रतीतो रामः ।
'१८२७ । तेन वित्तञ्जुञ्चुपचणपौ ।५।२।२६।' इति । स्थास्तुं रणे स्थितिशीलम् ।
तस्य सेनापतित्वात् । स्पेरमुखः चित्तस्याक्षोभादपद्धसनशीलवदनः । '३१४७
नमिकम्पि ।३।२।१६७।' इत्यादिना रः । उच्चस्तरां जगादेति क्रियाविशेषणम् ।
वचनं वक्ष्यमाणं महार्थं प्रधानार्थम् । ब्रुविशासीत्यत्र जुत्रीत्यर्थग्रहणाद्विकर्म-
कता । मारीचं वचनं च ॥
 
६० - आत्मं-भरिस् त्वं पिशितैर् नराणां
फले- ग्रीन हंसि वनस्पतीनाम् ॥
शौवस्तिक त्वं विभवा न येषां
व्रजन्ति, तेषां दयसे न कस्मात् ॥ ३३ ॥
 
आत्मेत्यादि-नराणां पिशितैमासैः आत्मानं विभपि पुष्णासि ।
नान्यदपि शरीरस्थितिहेनुर्भवतीति भावः । स त्वमात्मम्भरिः आत्मभरणाय
फलानि गृह्णन्ति ये वनस्पतीनां तान् फलेग्रहीन् फलाशिनो मुनीन् हंसि
मारयसि । शपो लुक् । '२९४० । फलेग्रहिरात्मम्भरिश्च ।३।२।२६।' इति
निपातितौ । श्वो भवितारः शौवस्तिकाः । '१३८५ । श्वसस्तुट् च । ४ । ३ । १५ ।' इति
ठञ् तुडागमश्च । द्वारादित्वादैजागमः । शौवस्तिकत्वं तद्येषां विभवा न व्रजन्ति
तेपामश्वस्तनिकवृत्तीनां कस्मान्न दयसे न रक्षसि । '६१३ । अधीगर्थ-दयेशाम् ।
२।३।५२ ।' इति कर्मणि षष्ठी ।
 
,
 
६१ - अझो द्विजान्, देवयजीन् निहन्मः,
कुर्मः पुरं प्रेत- नरा॒ऽधिवासम् ॥
धर्मो ह्येयं दाशरथे ! निजो नो,
नैर्वाऽध्यकारिष्महि वेद-वृत्ते ॥ ३४ ॥
 
अद्म इत्यादि-राक्षसः प्राह । द्विजान् ब्राह्मणक्षत्रियवैश्यान् अग्नो भक्षयामः ।
देवयजीन् देवान् यजन्ति आराधयन्ति ते तान्निहन्मः । 'अच इः' इत्यनुवर्तमाने
खनीत्यादिषूह्यमानेष्वौणादिकेषु सूत्रेषु यद्यपि यजिर्न पठितस्तथापि यजेरिः
 
१–'१०६६।उभौ त्वत्मम्-भरिः कुक्षिम् = भरिः खोदर-पूरके !!' २– '३५४। वानस्पत्यः
फलैः पुष्पात् तैर-पुष्पाद् वनस्पतिः ॥ ओषध्यः फल-पाकाऽन्ताः स्युरेवन्ध्यः फले=प्रहिः ॥'
इति सर्वत्र ना० अ० । ३–१३४७। धर्माः पुण्य-यम-न्यार्य-स्वभावाऽऽचार-सोम-पाः ।
इति ना० अ० ।