This page has not been fully proofread.

३२ भट्टि काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे द्वितीय वर्गः,
 
-
 
तपो- मरुद्भिर् भवतां शराऽग्निः
संधुक्ष्यतां नोऽरि-समिन्धनेषु
 
॥ २८ ॥
 
तानित्यादि — अथैतस्मिन् प्रस्तावे राववोऽपि रघुसुतः तान्मुनीन् प्रत्यवादी-
त् । '२२६७। वद-व्रज - ।७।२।३।' इत्यादिना वृद्धिः । यथेप्सितं यथाभिमतम् ।
आप्नोतेः '२६१९॥ आप्-ज्ञ्प्यृधामीत् ॥७॥४॥५५॥ इतीत्वम् अभ्यासलोपश्च ।
सन्नन्तात्कर्मणि निष्टा । धर्मादनपेतं धर्म्यम् यागादि कर्म । प्रस्तुत प्रारभध्वम् ।
प्रपूर्वः स्तौतिः प्रारम्भे वर्तते । तस्मान्निमन्त्रणे नियोगकरणे लोट । थस्य तः । शपो
लुक् । तपांसि मस्त इव तपोमरुद्भिः । भवतां तपोमरुद्भिर्नाऽस्माकम् । '४०५ ।
बहुवचनस्य वस् नसौ ।८॥२१॥ इति नसादेशः । शराभिः शरोऽझिरिव ।
यतां दीप्यताम् । '६४४ । थुक्ष, धिक्ष, सन्दीपन-क्लेदन - जीवनेषु ।' तस्मा-
कर्मणि लोट् । अरिसमिन्धनेषु अरिकाष्ठेषु । समिध्यते एभिरिति समिन्धनानि ।
करणे ल्युट् । अरयः समिन्धनानीव ॥
 

 
५६ प्रतुष्टुवुः कर्म ततः प्रकृतैस्
-
 
ते यज्ञियैर् द्रव्य-गणैर् यथावत् ॥
दक्षिण्य - दिष्टं कृतमर्खिजीनस्
 
-
 
तद् यातुधानैश् चिचिते प्रसपत् ॥ २९ ॥
 
प्रतुष्टुवुरित्यादि — ततो रामवचनादनन्तरं तपोधनाः कर्म यागकियां प्रतु-
ष्टुवुः । यथावत् यथाविधि प्रारब्धवन्तः । यज्ञियैः यज्ञकर्म: द्रव्यगणैः प्रक्लृप्तः
मिलितैः । '२३५०। कृपो से लः ॥२।१८ । दक्षिणामर्हन्तीति दक्षिण्याः
महामुनयः १७३३ । कडङ्कर-दक्षिणाच्छ च ५१११६९॥ इति चकाराग्रत् ।
तैर्दिष्टमुकम् । कृतमाविंजीनैः ऋत्विकर्मा हैरनुष्टितम् । ऋत्विजश्च ब्रह्मादयः
पोडश पठिताः । तच्च कर्म असर्पत् वृद्धिं गच्छत् । यातुधानै राक्षसः
चिचिते ज्ञातम् । '३९ । चिती संज्ञाने' इत्यस्मात् कर्मणि लिट् । यज्ञियैरा-
विजीनैरिति '१७३५॥ यज्ञविंग्भ्यां घखजौ ॥५॥१३॥७१॥ इति तस्कर्मातीति ॥
५७ - आपिङ्ग - रूक्षोर्ध्व-शिरस्य- बालैः
शिराल-जङ्घैर् गिरि-कूट-दमैः ॥
 
9
 
१ ~ पद्येऽस्मिन् रूपकाऽलंकारः । तलक्षणं का० प्र० भ० मम्मट:---
:- तद् रूपकममेदो य
उपमानो॒पमेययोः ॥' इति । यथा - 'एष मनः- स्वैर - पशुर् धावति पर कनक-कामिनीनिकटम् ॥
तस्माद् विवेक-पाशैः कण्ठे वैराग्य - काष्ठ मानध्यम् ॥' किंवा - दुष्यन्तसद्म पद्मं सा स्त्री - श्रीः
कण्ठ-भानु-शिष्य-करैः । नीता 'स-सुत-सुगन्धा सद्-धर्म- नया॒ऽभ्युपूर्ण-पुर-सरसि ॥' स्वकृत-
संस्कृत-भाषान्तर-पद्य-मालायाम् । २–१४३४/ रूक्षस् त्व-प्रेम्ण्य-चिकणे ।' इति ना० अ० ।
'२०५६ । रूक्ष पारुष्ये ।" इति धा० पा० ।