This page has not been fully proofread.

तथा लक्ष्य रूपे कथानके सीता-परिणयो नाम द्वितीयः सर्गः-
अप्रूपुजन्नित्यादि – वनवासिमुख्याः महर्षयो विष्टरादिभिः अपूपुजन्
पूजितवन्तः । तौ क्षितिपालपुत्रावित्यर्थात् द्वितीयान्तेन योज्यम् । वनवासीनि
'९७६। शय - वास - ।६।३।१८।' इत्यादिना विकल्पेन सप्तम्या अलुक् । पूजेः
स्वार्थिकण्यन्तस्य णौ चङि ह्रस्वः '२३१८ । दीर्घो लघोः ।७।४।१४॥ इति
अभ्यासस्य दीर्घः । विष्टरमासनम् । ८३२३३। वृक्षासनयोर्विष्टरः ॥८।३।९३११
इति निपातनात् । पाद्यं पादार्थमुदकम् । २०५३ । पादार्घाभ्यां च ॥५॥४॥२५॥
इति यत् । तदर्थत्वात्पद्भावाभावः । माल्यानि कुसुमानि । मालायां साधूनि ।
'१६५० / तत्र साधुः ।४।४।१८। इति यत् । आतिथ्य-निष्णा: अतिथ्यर्थम्
आतिथ्यम् । '२०९४ । अतिथेः ।५।४।२६।' तत्र निष्णाः कुशलाः । '३०८२।
नि-नदीभ्यां स्नातेः कौशले १८३१८९१ । इति षत्वम् । तौ च क्षितिपालपुत्रौ
रामलक्ष्मणौ तदासनादि प्रत्यग्रहीष्टां प्रतिगृहीतवन्तौ । प्रतिपूर्वाद् ग्रहेर्लुङ् ।
तसस्ताम् । '२५६२। ग्रहोलिटि ।७।२।३७ । इति दीर्घः । षत्वष्टुत्वे । मधुपर्क-
मिश्रम् मधुपर्केण सहेत्यर्थः ॥
 
५४ - दैत्याऽभिभूतस्य यु॒वाम॑वोढं
 
,
 
मनस्य दोर्भिर् भुवनस्य भारम् ॥
हवींषि संप्रत्यपि रक्षतं, तौ
 
तपो = धनैरि॑ित्थर्मभाषिषाताम् ॥ २७
 
-
 
दैत्येत्यादि — दितेरपत्यानि दैत्याः । '१०७७ । दित्यदित्या –।४।११८५।' इत्या-
दिना ण्यः । तैरभिभूतस्य भग्नस्य शरण्यस्य भुवनस्य भारमितिकर्तव्यतालक्षणं
दोर्भिर्भुजैः युवामवोढम् ऊढवन्तौ । नरनारायणौ युवामित्युक्तौ । त्वं चत्वं
चेति एकशेषः । अवोढमिति वहेर्लुङ् । थसस्तम् । हलन्तलक्षणा वृद्धिः ।
सिजलोपः । '२३५७। सहि होः ।६।३।११२ । इत्योत्वम् । ढत्वष्टुत्वढलोपाः ॥
दोरिति दमेडर्डोसित्यौणादिको डोस् । हवींषि होतव्यानि । सम्प्रत्यपि रक्षतम् ॥
अर्चिरुचिद्दुसृपिच्छादिच्छर्दिभ्य इसिरित्यौणादिक इसिः । राक्षसैरुपहन्यमानानि
रक्षतम् । प्रार्थनायां लोट् । शप् । थसस्तम् । इत्थमिति १९६५ । इदमस्थमुः
।५।३।२४।' अनेनोक्तप्रकारेण । तपोधनैस्तप एव धनं येषामिति । अभाषिषाताम्
अभिहितौ । भाषतेः कर्मणि लुङ् । सिजिटौ ॥
 
५५ - तान् प्रत्यवादीदथ राघवोऽपि,
यथो॒प्सितं प्रस्तुत कर्म धर्म्यम्, ॥
 
१ – '६४४ । भुजबाहू प्रवेष्टो दोः ।'