This page has not been fully proofread.

३०
 
भट्टि- काव्ये - प्रथमे प्रकीर्ण काण्डे लक्षण रूपे द्वितीयो वर्गः,
कथम्भूतम् । हुतधूमकेतुशिखाञ्जन स्निग्धसमृद्धशाखम् । हुतश्चासौ धूमकेतुरशिश्र
हुत धूमकेतुः । तस्य शिखाञ्जनेन स्निग्धाः समृद्धाश्च फलादिना शाखा स्थ
तपोवनस्य । प्राध्ययनेन वेदपाटेन अभिभूता तिरस्कृता समुच्चरन्ती चाव शोभना
पतन्त्रिणां पक्षिणां शिक्षा ध्वनियंत्र । '१०९८ । शिजि अव्यक्ते शब्दे । शिक्ष
शिक्षा '३२८०। गुरोच हलः ।३।३।१०३।' इत्याकारप्रत्ययः । पतन्तं चायन्त इति
पतन्त्राणि पक्षाः । '२९१५) आतोऽनुपसर्गे कः । ३।२।३। । । तानि येषां भन्तीति
पतन्त्रिणः । पतङ्गशिञ्जमिति पाठान्तरम् ॥
 
,
 
५२ - क्षुद्रान् न जक्षुर् हरिणान् मृगेन्द्रा,
विशश्वसे पक्षि-गणैः समन्तात् ॥
नन्नम्यमानाः फल-दित्सयैव
चकांशिरे तत्र लता विलोलाः ॥ २५ ॥
 
क्षुद्रानित्यादि — तत्र तस्मिंस्तपोवने तपोधनानां मित्रभावात् क्षुद्रानि-
तरानपि हरिणान्मृगेन्द्राः सिंहाः न जक्षुः न बाधितवन्तः । क्षुद्यन्तांत क्षुद्राः ।
स्फायितञ्जीयादिना औणाढिको रक् । '२४२४ । लिट्यन्यतरस्याम् ।२।१४।४०।'
इति अदेर्धस्ऌ । '२३६३ । गम-हन-१६।४।९८।' इत्यादिनोपधालोपः '१२१ वरि
च ।८।४।५५॥' इति चर्ध्वम् । '२४१० । शासि-वास- १८।३।६० ।' इत्यादिना यध्वम् ।
पक्षिगणैः समन्तात्सर्वत्र विरुद्धैरपि काकोलूकादिभिः परस्परं विशश्वसे विश्वम्तम् ।
भावे लिट् । लताश्च विलोलाश्चपलाञ्चकाशिरे शोभन्ते स्म । फलदिन्सयेव मुनिभ्यः
फलं दातुमिच्छयेव नन्नम्यमानाः अत्यर्थ नमन्यः । दातुमिच्छा दिस्सा । ददातेः
सन् । '२६५३। सनि मी-मा- १७/४/५४।' इत्यादिना इस् । '२६२० । अत्र लोपो-
ऽभ्यासस्य ।७।४।५८।' इति अभ्यासलोपश्च । '२३४२ । सः सि– ।७।४।४९।' इत्या
दिना सकारस्य तकारः । '३२७९। अ प्रत्ययात् ।३।३।१०२।' इत्यकारप्रत्ययः ।
फलानां दित्सेति कर्मणि षष्टीं विधाय कृद्योगे समासः । ननम्यमाना इति नमे-
यडि '२६४३ । नुगतोऽनुनासिक - 1७।४।८५१' इति नुक् । यङन्ताच्छानच् ।
आने मुक् ॥
 
५३ - अपूपुजन् विष्टर- पाद्य-मॉल्यै-
रातिथ्य - निष्णा वन-वासि मुख्याः ॥
प्रत्यग्रहीष्टां मधुपर्क मिश्रं
 
तावा॑ सना॒ऽऽदि क्षिति- पाल-पुत्रौ ॥ २६ ॥
 
१ – '६९४। का दीप्तौ ।' २ – १३७८ । विष्टरो बिटपी दर्भमुष्टिः पीठाऽऽथर्मासनम् ।'
३. '७३८। पाद्यं पादाय वारिणि ।' ४ – १६९९ । माल्यं मालास्रजौ मूर्ध्नि ।