This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके सीता-परिणयो नाम द्वितीयः सर्गः -
 
ददौ वधाय क्षणदा = चराणां
 
तस्मै मुनिः श्रेयसि जागरूकः ॥ २२ ॥
 
आयोधन इत्यादि —स मुनिः तस्मै रामायास्रजातम्, अस्त्रसमूहं ददौ
दत्तवान् । ददातेर्लिट् । णल ' २३७१ । आत औ पलः ।७।११३४' आयुध्यन्ते
अस्मिन्निति आयोधनं संग्रामः । अधिकरणे ल्युट् । तत्र स्थायुकं स्थितिकरणशी-
लम् जयावहत्वात् । '३१३४ । लप पत - । ३।२।१५४ । इत्यादिना उकञ् ।
आतो युक् । अत एवामोघं अवन्ध्यम् । अवृथामोक्षत्वात् । अभ्यर्णो निकटो
महाहवो यस्य तस्मै । अभिपूर्वादर्देर्निष्टायाम्, '३०६५ । अभेश्चाविदूर्ये ।७।२२५
इतीप्रतिषेधः । '३०१६ । र-दा- भ्याम् । ८।२।४२।' इति नत्वम् । अभ्यर्णः ।
आहव इति आहूयन्ते अस्मिन्युवायेति ह्वयतेराङ्पूर्वात् '३२५० । आडिङ युद्धे
१३।३।७३।' इति सम्प्रसारणम् । अप्प्रत्ययः । गुणावादेशौ । वधाय क्षणदाचरा-
णामिति क्षणदा रात्रिः तत्र चरन्तीति '२९३० । चरेष्टः ।३।२।१६।' तंत्र हि
महाहवे रामो राक्षसान् हनिष्यतीति । '३२५३ । हनश्च वधः । ३।३२।७६।' इति
वधादेशः । कृत्प्रयोगे क्षणदाचराणामिति कर्मणि षष्ठी । श्रेयसि जागरूक:
तत्कल्याणे सावधानः जागर्तेरूकः ॥
 
५० - तं विप्र-दर्श कृत-घात- यत्ना
यान्तं वने रात्रि - चरी डुढौके, ॥
जिघांसु - वेदं धृत-भासुराऽस्त्रस्
 
२९
 
तां ताडकाऽऽख्यां निजधान रामः ॥ २३ ॥
तमित्यादि - विद्यामस्त्रजातं चादाय यज्ञकर्मणि विघ्नोपशमनार्थ वने यान्तं
रामम् रात्रिचरी राक्षसी ताडकाभिधाना डुढौके ढौकते स्म । ढौकतेरात्मनेप-
दिनो लिटि रूपम् । तां च रामो निजवान निहतवान् । विप्रदर्श कृतघातयत्ना
विप्रान् ब्राह्मणान् दृष्ट्वा कृतमारणाभियोगा रात्रिचरी । रामोऽपि जिघांसुवेदं
वृतभासुरास्त्रः । जिघांसुं विदित्वा धृतं भासुरं भासनशीलम् अस्त्रं येनेति बहु-
व्रीहिः । विप्रदर्श जिघांसुवेदमिति । '३३५० । कर्मणि दृशि-विदोः साकल्ये
।३।४॥२९।' इति णमुल ॥
 
५१ - अर्थाss लुलोके हुत-धूम-केतु-
शिखाऽञ्जन - स्निग्ध-समृद्ध-शाखम् ॥
तपोवनं प्राध्ययाऽभिभूत-
समुच्चरच्- चारु पतत्रि-शिञ्जम् ॥ २४ ॥
 
अथेत्यादि – अथासौ रामो राक्षसीं हत्वा तपोवनं आलुलोके दृष्टवान् ।
 
२ - '१०११ ढौ गत्यर्थः ।' २–'लोकॅ दर्शने ।"