This page has not been fully proofread.

२८
 
भट्ट- काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण रूपे द्वितीयो वर्गः,
 
-
 
तमित्यादि – यायजूकाः, अत्यर्थं यजनशीलाः । '३१४६। यज-जप दशांथङः
१३।२।१६६।' इत्यूकः । '२३०८। अतो लोपः ॥४।४८॥ '२६३१॥ यस्य हरुः
।६।४।४९।' ते तपोवनस्थितास्तं राममागच्छन्तमानर्चुः सुठु पूजितवन्तः । अर्च-
लिंटि द्विर्वचनम् । '२२४८ । अत आः ।७।४।७० ।' इति दीर्घत्वम् । '२२८८।
तस्मान्नुड् दिहलः ।७।४।७१॥ इति नुट् । सह भिक्षुमुख्यैः । भिक्षणशीला
भिक्षवः परिव्राजकाः । '३१४८। सनाशंसभिक्ष उः ।३।२।१६८।' तेषां ये प्रधानास्तः
सह । तपःकृशाः तपसा दुर्बलाः । शान्त्यर्थमुदकं तेन पूर्ण: कुम्भः । '९९७१
एकहलादौ-।६।३।५९१' इत्यादिना उदकस्य उदद्भावः । म हस्ते येपामिति
बहुव्रीहिः । परनिपातश्चात्र वाहिता म्यादिदर्शनात् । प्रहरणार्थेभ्य इति वा ।
शान्त्युदकुम्भस्त्वहित निवारणसाधर्म्यात् उपचारेण प्रहरणम् । ते शिरःसूदकदानेन
प्राणर्चुः । अन्ये मुनयो यायावरा एकत्रानियतनिलयाः । यातेर्यङन्तात् ।
'१३५६। यश्च यङः ।३।२।१७६।' इति वरच् । अतोलोपादि । पुष्पफलेन प्राणचुः ।
पुष्पाणि च फलानि चेति '९१०। जातिरप्राणिनाम् ।२।४।६॥ इत्येकवद्भावः
अर्ध्या अर्चना: । '२८२२ । अर्हे कृत्य । ३।३।१६९।' अर्चनीयमित्यत्रापि । जगत
जगद्भिर्वा, अर्चनीयम् । '६२९। कृत्यानां कर्तरि वा १२॥ ३॥७३॥ । इति पक्षे पष्ठी
नतु '६२३ । कर्तृ-कर्मणोः कृति – ।२।३।९५॥ इति पढ़ी ।
 
४८ - विद्यामधनं विजयां जयां च
 
रक्षो-गणं क्षिप्नुम॑-विक्षता॒ऽऽत्मा ॥
अध्यापिपद् गाधि- सुतो यथावन्
 
निघातयिष्यन् युधि यातुधानान् ॥ २१ ॥
 
विद्यामित्यादि – तपोवनं प्राप्तः गाधिसुतः एनं रामम् । '३५१॥ द्वितीया
टौ~।२।४।३४।' इत्येनादेशः । विद्यां नाम्ना विजयां जयां च । यथावत् यथाविधि ।
अध्यापिपत् पाठितवान् । '२६०१ । णौ च संचङः ।६।१।३१।' इति गाङभावपक्षे
रूपम् । अधिपूर्वादिङो हेतुमण्णिाच '२६०० । क्रीजीनां णौ ।६॥१॥४८॥ इत्या-
त्वम् । पुगादिविधयः । रक्षोगणम् । क्षिप्तुं प्रेरयितारम् । '३१२० । त्रसि-मृद्धि -
।३।२।१४०।' इत्यादिना क्ल: । '६२७ । न लोका- ।२।३।६९ ।' इति षष्ठीप्रतिषेधात्
द्वितीयैव । अविक्षतात्मा रागादिभिरनभिभूतचित्तवृत्तिः । तस्य हि विद्या अमोघा
भवति । संग्रामे युधि । यातुधानान् रक्षांसि । निधातयिष्यन् मारयिष्यन् ।
हन्तेर्हेतुमणिच् । त्वं । लृट् लुटः सदादेशः ॥
 
-
 
--
 
४९ - आयोधने स्थायुकम॑स्त्रजात-
म॑मोघम॑भ्यर्ण-महाऽऽहवाय ॥
 
१–१०७५। निराकरिष्णुः क्षिः स्यात् ॥