This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके सीता-परिणयो नाम द्वितीयः सर्गः -
 
सङ्घशब्दस्य रूढत्वात् । लीना: कलहंसमालाः । तथा संसक्तफेणेषु च सैकतेपु
पुलिनेपु लीनाः सिकता येषु विद्यन्त इति । '१९१२ । देशे लुबिलचौ च
।५।१।१०५।' इति चकारादण् । कुन्दावदाताः कुन्दमिवावदाताः शुक्लाः । ७३४
उपमानानि ।२।१।२२।' इत्यादिना समासः । प्रतीयिरे ज्ञाताः । तेन रामेणेति
विभक्तिविपरिणामेन सम्बन्धः । कर्मणि लिट् । २४५५ । इणो यण् ॥४।८॥
। '२२४३। द्विर्वचनेऽचि ।१।१।५९॥ इति स्थानिवद्भावाविर्वचनम् । श्रोत्रसुखैर्म-
चुरौर्ननादैः करणभूतैः। '३२४१ । नौ गढ़ – ।३।३।६४ । इत्यादिना घञ् ॥
शरद्वर्णनमुपसंहरन्नाह -
 
४६ - न तज् जलं, यन् न सुचारु-पङ्कजं,
न पङ्कजं तद्, यर्द - लीन-पट्-पदम् ॥
न षट्- पदोऽसौ, न जुगुञ्ज यः कलं;
न गुञ्जितं तन्, न जहार यन् मनः ॥१९॥
 
न तज्जलमित्यादि । किम्बहुनोक्तेन सर्वथा न तज्जलं यत् सुचारुपङ्कजं न
बभूव । पङ्कजमपि यदलीनषट्पदं तदपि न । असौ षट्पदोऽपि तथाविधो
नाभूत् । यः कलं मधुरं न जुगुञ्ज न गुञ्जितवान् । '२१२ । गुजि अव्यक्ते शब्दे'
। '२२६२ । इदितो नुम् धातोः ।७।१।५८।' इति नुमि लिटि रूपम् । गुञ्जि-
तमपि तत् नैवासीत् । यन्मनो न जहार न हृतवत् रामस्य लोकस्य वा ॥
 
४७ – तं यायेजूकाः सह भिक्षुं-मुख्यैस्
 
तपः - कृशाः शान्त्युदकुम्भ-हस्ताः
यायावराः पुष्प फलेन चऽन्ये
प्राणचुरर्ध्या जगदर्चनीयम् ॥ २० ॥
 

 

 
१ –पद्येऽस्मिन्नेकावल्यलङ्कारः । तलक्षणं काव्यप्रकाशे भट्ट- मम्मटः- 'स्थाप्यतेऽपोह्यते
वाsपि यथा पूर्व परं परम् ॥ विशेषणतया वस्तु यत्र, सैकावली द्विधा ॥" इति । स्थापने
यथा — पुराणि यस्यां स वराङ्गनानि, वराऽङ्गना रूप- पुरस्कृता-ज्जयः ॥ रूपं समुन्मीलित-सद्-
विलासम विलासा: कुसुमा-ऽऽयुधस्य ॥' किंवा — 'स पण्डितो, यः स्वहिताऽर्थ-दर्शी; हितं च
तद्, यत्र पराऽनपक्रिया ॥ परे च ते, ये श्रित-साधु-भावाः; सो साधुता, यत्र चकास्यु॑माधवः ॥
अपोहने यथा— 'निरत्ययं साम न दान वर्जितं; न भूरि दानं विरहय्य सत्-क्रियाम् ॥ प्रवर्तते
तस्य विशेष-शालिनी; गुणा॒ाइनुरोधेन विना न सत्-क्रिया. ॥' इति श्री - भारवि किरातार्जुनीये
–१।१२। किं वा–'ना॑ऽऽर्थः स, यो न स्वहितं, समीक्षते; न तद् हितं, यत् न पराऽनुतोष-
णम् ॥ न ते परे, यैर् नहि साधुता श्रिता; न साधुता सा, नहि यत्र माधवः ॥२–७१४॥
इज्या शीलो यायजूक: ॥ ३-७४९। भिक्षुः परित्राट् कर्मन्दी पाराशर्यपि मस्करी ॥"