This page has not been fully proofread.

भट्टि- काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण रूपे द्वितीयो वर्गः,
 
स्त्रीभूषणमित्यादि — गोपाङ्गनानां चेष्टितं गमनागमनादि । अप्रगल्भं
लज्जावत् । तच्च स्त्रीविभूषणं स्त्रीणामलङ्कारः । तथा वीक्षितानि विलोकितानि
अवक्राण्यपि कटाक्षादिरहितान्यपि चारूणि शोभनानि । स्वभावान् स्वाभिप्रायान्
ऋजून् अकुटिलान् विश्वासकृतो विश्वासस्य जनकान् विलोक्य मुमुदे हृष्टवान् ।
स रामः । लिटोsपित्वात्कित्त्वे गुणाभावः । कार्याणां दर्शनात् स्वभावानां
दर्शनमित्युक्तम् ॥
 
४३ - विवृत्त - पार्श्व रुचिराऽङ्गहारं
समुद्रहच्- चारु - नितम्ब रम्यम् ॥
आमन्द्र मन्थ- ध्वनि- दत्त-तालं
गोपऽङ्गना-नृत्यम॑नन्दयत् तम् ॥ १६ ॥
 
विवृत्तेत्यादि-गोपाङ्गनानां दधिमन्थनाय यत् स्थानं कृतं तत् नृत्यमिवेति
गोपाङ्गनानृत्यं कर्तृ तं रामं अनन्दयत् सन्तोषितवत् । नन्देर्ण्यन्तस्य लड
रूपम् । विवृत्ते निर्यक्चलिते पार्श्वे यन्त्र नृत्ये । रुचिरः शोभनोऽङ्गहारोऽङ्गविक्षेपो
यत्र । समुद्वहता तिर्यक् समुद्रच्छता चासनेतम्बेन मनोरमकटिभागेन रम्यं
मनोहरम् । आमन्द्र ईषद्गम्भीरो यो मन्थकृतो ध्वनिः तेन दत्तस्तालो यत्र ॥
४४ - विचित्रमुच्चैः प्लवमानमारात्
कुतूहलं त्रस्तु ततान तस्य ॥
मेघाऽत्ययोपात्त-वनो॒पशोभं
 
कदम्बकं वातमजं मृगाणाम् ॥ १७ ॥
विचित्रमित्यादि ॥ मृगाणां कदम्बकं वृन्दं तस्य रामस्य कौतूहलं तनान
विस्तृतवत् । विचित्रम् कृष्णश्वेतत्वात् । उच्चैः प्लवमानम् ऊर्ध्वं जिहानम् । आरात
समीपे त्रस्नु त्रसनशीलम् ' ३१२० । त्रसि - गृधि ।३।२।१४०।' इत्यादिना
क्रुः । मेघात्ययेन मेवापगमेन उपात्तवनोपशोभम् । उपात्तं गृहीतं वनम् उपशोभा
च येनेति व्यधिकरणबहुव्रीहिः । वातमजति वातमजम् । वाताभिमुखं गच्छती-
त्यर्थः । 'वात- शुनी-तिल-शर्धेषु -' इति खश् । '२९४२ । अरुषि-१६।३।६७ ।'
इति मुम् ॥
 
४५ - सिताऽरविन्द - प्रचयेषु लीनाः
संसक्त-फेणेषु च सैकतेषु ॥
कुन्ददा॒ऽवदाताः कलहंस-मालाः
प्रतीयिरे श्रोत्र - सुखैर् निनादैः ॥ १८ ॥
 
सितेत्यादि — सितारविन्दानां प्रचयेषु समूहेषु ।'३२३१॥ एरच् ।३।३।५६।'
।'३२१४। सङ्घे चानौत्तराधर्ये ।३।३।४२।' इति घञकौ न भवतः आणिषु