This page has not been fully proofread.

तथा लक्ष्य रूपे कथानके सीता-परिणयो नाम द्वितीयः सर्गः-
४० - दिग्-व्यापिनीर् लोचन-लोभनीया
मृजाऽन्वयाः स्नेहमिव स्रवन्तीः ॥
ऋज्वाऽऽयताः शस्य-विशेष पङ्कीस्
तुतोष पश्चन् वितृणाऽन्तरालाः ॥ १३ ॥
 
दिव्यापीत्यादि-शस्यविशेषाणां शाल्यादीनां पङ्कीः पश्यंस्तुतोप तुष्टवान् ।
दिग्व्यापिनीः सर्वदिग्व्यापनशीलाः । लोभयन्तीति लोभनीयाः । बहुवचना-
त्कर्तर्यनीयः । लोचनानां लोभनीया इति षष्टीसमासः । मार्जनं सृजा शुद्धिः ।
'३२८१ । षिद्भिदादिभ्योऽङ् ।३।३।१०४ । तया, अन्वयोऽनुगमो यासाम् ।
शुद्ध्यनुगता इत्यर्थः । ततः स्नेहमिव स्रवन्तीः । ऋजवश्च ता आयताश्च वितृणा-
न्तरालाः । उत्पाटितानि तृणानि अन्तराले मध्यभागे यासां ताः ॥
 
४१ - वियोग- दुःखाऽनुभवाऽनभिज्ञैः
काले नृपंऽशं विहितं ददद्भिः ॥
आहार्य - शोभा-रहितैरमायै-
२५
 
रैक्षिष्ट पुम्भिः प्रचितान् स गोष्ठान् ॥ १४ ॥
 
वियोगेत्यादि — पुम्भिः गोपैः प्रचितान् व्याप्तान् गोष्टान् गावस्तिष्ठन्ति
येष्विति २९१६ सुपि स्थः ।३।२।४।' इति कः । '२९१८। अम्बाम्ब-
।८।३।९७।' इत्यादिना मूर्धन्यः । तान् स राम ऐक्षिष्ट दृष्टवान् । अनुदात्तेत्त्वा-
त्तङ् । इट् । वियोगदुःखस्य योऽनुभवः अनुभवनं तस्यानभिज्ञैः तेषां पुत्रदारैः
सहैव सर्वत्र गमनात् एतावता कालेन एतावद्देयमिति विहितं कृतम् । दुधा-
तेर्हिः । नृपाशं करं ददद्भिः । आहार्या कटकादिभिः आहरणीया या शोभा
दीतिः तथा रहितैः । अमायैः ऋजुभिः । आहार्येति २८७२ । ऋ-हलोयंत्
।३।१।१२४॥ शोभयतीति शोभा पचाद्यच् । ८३२८४ । ण्यासश्रन्थो युच्
।३।३।१०७ ।' इति युच् न भवति, तस्य स्त्रीलिङ्गे भावे अकर्तरि च कारके विधा-
नात् । नन्द्यादिपाठात् ल्युर्न भवति, तस्य ' २८३० । वासरूपोऽस्त्रियाम् ।३।१।१४ ।
इति विकल्पितत्वात् । अथवा शोभनं शोभा स्त्रीलिङ्गे भावे घन् । '२८४१॥
कृत्य-व्युटो बहुलम् ।३।३॥३१॥ इति बहुलवचनादन्येऽपि कृतः प्राप्तमपि
 
स्वाभिधेयं व्यभिचरन्ति ॥
 
४२ - स्त्री - भूषणं चेष्टितर्म-प्रगल्भं
चारूण्यं चक्राण्य॑पि वीक्षितानि ॥
ऋजूंव विश्वास - कृतः स्वभावान्
गोपाऽङ्गनानां मुमुदे विलोक्य ॥ १५ ॥
 
M
 
भ० का० ३