2023-02-15 17:21:46 by ambuda-bot
This page has not been fully proofread.
२४
भट्टि काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण रूपे द्वितीयो वर्गः,
३८ - लताऽनुपांतं कुसुमा॑न्य॒गृह्णात्
स, नद्यवस्कन्दमुपास्पृशच् च ॥
कुतूहलाच, चारु-शिलोपवेशं
काकुत्स्थ ईपत् स्मयमान आस्त ॥ ११ ॥
लतेत्यादि – '३३७८ । विशि-पति-पदि-स्कन्द व्याप्यमानासेव्यमानयोः ॥३॥
४॥५६॥ इति द्वितीयान्त उपपदे णमुल्विधीयते । तत्र व्याप्यमाने द्रव्यवचनस्य
आसेव्यमाने च क्रियावचनस्य '३१३७॥ नित्य-वीप्सयोः ।८।१।४।' इति द्विवचनं
विधीयते । अत्र तु समासेनैवोक्तत्वात् नोपयुज्यत इति स्थितम् । स काकुत्स्थो
रामो गच्छन् लतां लतामनुपात्य कुसुमान्यगृह्णात् गृहीतवान् । लतामनुपात्या-
नुपात्य च । '७८४ । तृतीयाप्रभृतीन्यन्यतरस्याम् ।२।२।२१।' इति समासः । अहे-
लेडू । श्वाप्रत्ययस्य, अपिदिति ङित्त्वे '२४१२ । ग्रहि-ज्या-६ ॥१॥१६॥' इत्यादिना
सम्प्रसारणम् ॥ नद्यवस्कन्दमिति नदीं नदीम् अवस्कन्द्य सर्वा नदीमवस्कन्द्य
ढौकित्वा नदीं वा अवस्कन्द्यावरकन्य, उपास्पृशत् आचमनं कृतवान् । कुतूहला-
दिति सर्वत्र योज्यम् ॥ चारुशिलोपवेशमिति चारुशिलाः चारुशिला उपविश्य
चारुशिला उपविश्योपविश्य वा आस्त आसितवान् । आसेर्लङि रूपम् । ईषत्
स्मयमानः ईपद्धसन् ॥
३९ - तिग्मांशु-रश्मिच्-छुरितान्य-दूरात्
प्रात्रि प्रभाते सलिलान्येपश्यत् ॥
गभस्ति-धाराभिरि॑िव द्रुतानि
तेजांसि भानो भुवि संभृतानि ॥ १२ ॥
तिग्मांश्वित्यादि-अदूरात्समीपे सलिलान्यपश्यत् । इशेर्लङि '२३६०
पा-घ्रा–१७७३।७८।' इति पश्यादेशः । तिग्मांशोरादित्यस्य रश्मिभिः छुरितानि
रञ्जितानि । तुकू । प्राचि पूर्वस्यां दिशि अवस्थितानि । प्रपूर्वादञ्चतेः '३७३॥
ऋत्विग्- ।३।२।५९॥' इत्यादिना विप् । अनुषङ्गलोपः । शिः । नपुंसकस्य नुम् ।
भानोरिव तेजांसि भुवि संभृतानि पिण्डीकृतानि । गभस्तिभिः रश्मिमिः
धाराभिरिव द्रुतानि गलितानि । धारा प्रपात इति भिट्टा पाठाद्रष्टव्यम् ॥
१-'अलं- खल्वोः प्रतिषेधयोः प्रचां
समान कर्तृकयोः पूर्व-काले
आमीक्ष्ण्ये णमुल ( अम्) च-
समासे ऽनन् पूर्वे क्त्वो ल्यप् (त्र)
इति सर्वत्राष्टाध्याय्य पाणिनिः' वै० भ० च ।
क्त्वा ( त्वा)
-
●
।३।४।१८॥ ३३१६।
।३।४।२१॥३३२०
।३।४।२२॥३३४३।
२७।२१।३७॥३३३२।