This page has not been fully proofread.

२२
 
भट्टि काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे द्वितीयो वर्गः,
 
किमिति निरस्यति – यतो मानिनी मानवती अन्यसङ्गमम् अन्यया सह संगम
न संसहते । आत्मसङ्गादन्यसङ्गमं न सहते न क्षमते ॥
 
३४ - दत्ता॒ऽवधानं मधु-लेहि-गीतौ
प्रशान्त - चेष्टं हरिणं जिघांसुः ॥
आकर्णयनुत्सुक - हंस-नादान्
 
लक्ष्ये समाधिं न दधे मृगावित् ॥ ७ ॥
 
दत्तेत्यादि-मधुलेहिगीताविति मधु लेढुं शीलमेषामिति णिनिः । मधुले-
हगीताविति पाठान्तरम् । तत्र लिहन्तीति लेहाः पचाद्यच् । मधुनो लेहा इति
षष्ठीसमासः । मधु लिहन्तीति वा कर्मण्यण् । दुत्तावधानं दत्तमानसं हरिण
प्रशान्तचेष्टं जिघांसुः हन्तुमिच्छुरपि मृगावित् व्याधः । मृगान्विध्यतीति
विप् । '२४१२। ग्रहि-ज्या ।६।१।१६।' इत्यादिना सम्प्रसारणम् । "१०३७॥
नहि-वृति- ।६।३।११६।' इत्यादिना दीर्घः । लक्ष्ये वध्ये समाधि चित्रकात न
दधे न धारितवान् । जित्वात्त । लिटः कित्चे आतो लोपः । उत्सुकानां हंसानां
नादानाकर्णयन् ऋग्वन् तन्नाभिरतचित्तकत्वात् । वर्तमानकालो भूतेनाभिस-
म्बध्यमानः साधुः । '२८२४ । धातु सम्बन्धे प्रत्ययाः ।३।४।१।' इति च । आक-
र्णयन्निति 'प्रातिपदिकाद्धात्वर्थे बहुलम्' इति णिच् । '३१०३ । लक्षण हेत्वो:-
।३।२।१२६।' इति शतृप्रत्ययः ॥
 
३५ - गिरेर् नितम्वे मरुता विभिन्नं
तोया॑ऽवशेषेण हिमा॒ऽऽभ॑मभ्रम् ॥
सरिन् मुखऽभ्युच्चयमा॑दधानं
शैलऽधिपस्या॑ऽनुचकार लक्ष्मीम् ॥ ८ ॥
 
-
 
गिरेरित्यादि — गिरेः कस्यचित् नितम्बे मध्यभागे स्थितमत्रं कर्तृ 'मरुता
विभिन्नं विह्वलीकृतं तोयावशेषेण पयसोऽवशिष्टतया हिमाभं हिमसदृशं सारे-
न्मुखानां गिरिनदी निर्गमाणामभ्युच्चयं वृद्धिम् आदधानं कुर्वाणं शैलाधिप
हिमवतः लक्ष्मीं शोभामनुचकार अनुकृतवत् ॥
 
३६ - गर्जन् हेरिः साऽम्भसि शैल-कुञ्जे
प्रतिध्वनीनात्म-कृतान् निशम्य ॥
 
१–'९४। अभ्रं मेवो वारि वाहः स्तनयितुर् बलाहकः । धारा-धरो जल-धरस् तडित्वान्
चारि-दोऽम्बु-भृत् ॥' इति ना० अ० । २ – ११३८३॥ याऽनिलेन्द्र चन्द्राऽर्क-विष्णु-सिंहां ऽशु-
वाजिषु । शुकाऽहि-कपि-मेकेषु हरिर् ना, कपिले त्रिषु ॥ '