2023-02-15 17:21:45 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य रूपे कथानके सीता-परिणयो नाम द्वितीयः सर्गः-
उपारुरोदेव नदत् - पंतङ्गः
कुमुद्वतीं तीर तरुर दिनाऽऽदौ ॥ ४ ॥
निशेत्यादि-निशायां तुपारः हिमैः । नयनाम्बुकल्पैः अश्रुतुल्यैः ।
नयनानुकारिपु पत्रेषु स्थितत्वात् । वैर्हेतुभूतैः पत्रान्तपर्यागलदच्छबिन्दुः ।
पत्रान्तात्पर्यागलन्तः अच्छास्तुपारबिन्दवो यस्य तीरतरोः । स दिनादौ दिना-
रम्भे कुमुद्दतीमुपारुरोदेव आनन्दितवानिव भाति । शशिवियोगादीडशी-
त्वं भूतासीति । रोदनक्रियया आक्रन्दनविशिष्टया कुसुद्वत्या ईप्सिततम-
त्वात् रुदि: सकर्मकः । तदाऋन्दनं योजयन्नाह – नदत्पतङ्ग इति । कूजत्पक्षी-
त्यर्थः । 'पतेरङ्गच् पक्षिणि' इत्यौणादिकः । कुमुद्दती ' १३०६ । कुमुदनड-
।४।२।८७ । इत्यादिना इमतुप् । १८९८ । झयः ।८।२।१०।' इति वत्वम् ।
उगिचात् ङीप् ॥
३२ - वनानि तोयानि च नेत्र - कल्पैः
पुष्पैः सरोजैश् च निलीन-भृङ्गैः ॥
परस्परां विस्मय-वन्ति लक्ष्मी-
मलोकयाञ्चक्रुरि॑वा॒ऽऽदरेण
२१
॥ ५ ॥
वनानीत्यादि — वनानि पुप्पैर्निलीनभृङ्गैः स्थितभ्रमरैः । लीयतेः '३०१९॥
स्वादय आदितः ।८।२।१५॥ इति निष्ठानत्वम् । नेत्रकल्पैः नेत्रतुल्यैः । तोयानि
च सरोजैः निलीनभृङ्गैनैत्रकल्पैः । विस्मयवन्ति जातविस्मयानि । परस्परा-
मन्योन्यस्य लक्ष्मीं शोभाम् आलोकयाञ्चक्रुरिव । आदरेण तात्पर्येण ॥
३३ - प्रभात - वाता॒ऽऽहति-कम्पितता॒ऽऽकृतिः
कुमुद्वती- रेणु - पिशङ्ग - विग्रहम् ॥
निरास भृङ्गं कुपितेव पद्मिनी,
ने मानिनी संसहते ऽन्य सङ्गमम् ॥ ६॥
प्रभातेत्यादि - प्रभाते यो वातस्तस्याघातेन कम्पिता चालिता आकृति-
राकारो यस्याः पद्मिन्याः सा भृङ्गं निरास निरस्तवती । कुमुद्वतीरेणुना
पिशङ्गः कपिशः विग्रहो यस्य भृङ्गस्य । कुपितेव यथा अन्यया स्त्रिया सहोषितं
तदङ्गसंक्रान्तपरिमलकण्ठमालमात्मदयितं काचित् कुपिता निरस्यति तद्वत् । सा
१ – '१२२५ । पतङ्गौ पक्षि-सूर्यौ च ।' इति ना० अ० । २ - 'अत्राऽर्थान्तरन्यासाडलंकारः ।
तलक्षणं कुवलयानन्दकारिकायाम् – 'उक्तिरर्थान्तरन्यासः स्यात् सामान्य-विशेषयोः ॥
हनूमान॑ब्धिमतरद्, दुष्करं किं महाऽऽत्मनाम् ॥ इति ।