This page has not been fully proofread.

२०
 
भट्टि-काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे द्वितीयो वर्गः,
 
-
 
वनस्पतीनासित्यादि –स रामः । तस्याः पुरः अयोध्यायाः । निर्वाग
निर्गय । समन्तात् सर्वतः शरदं ददर्श दृष्टवान् । कालस्याप्रत्यक्षत्वात् कार्याणां
दर्शनात्तदर्शन मिति मन्यते । श्रियं दधानां धारयन्तीम् । केपां वनस्पतीनाम् ।
पारस्कराडिदर्शनात् सुटू । अत्र लोकप्रतीत्या वृक्षा द्रष्टव्याः । न तु पारि-
भाषिकाः । तथा सरसां तडागानां नदीनां गादीनां तेजस्विनां चन्द्रतारा-
दीनां कान्ति नैर्मल्यं बिभ्रतां दिशां च । तदा हि निर्मला दिशो भवन्ति । वन-
स्पत्यादीनां श्रियं दधानां शरदं ददर्श ॥
 
तां रामव्यापारं विना सामान्येन वर्णयन्नाह -
 
२९ – तरङ्ग-सङ्गाच् चपलैः पलाशैर्
ज्वाला - श्रियं साऽतिशयां दधन्ति ॥
स- धूम-दीप्ताऽग्नि
रुचीनि रेजुस्
ताम्रा॑नो॒त्पलान्या॑कुल - षट्-पदानि ॥ २ ॥
 
तरङ्गेत्यादि – तरङ्गसङ्गात् सलिलोमिंसम्पर्काञ्चपलैः चञ्चले : पलाशैः पत्रैः
ज्वालाश्रियं सातिशयां दधन्ति । सधूसदीताग्निश्चीनि सधूमदीप्ताप्नेरिव रुचि-
येषां रक्तोत्पलानां तानि रेजुः दीप्यन्ते स्म । राजेर्लिटि '२३५४ । फणां च
सप्तानाम् ।६।४।१२५।' इति एत्वाभ्यासलोपौ । आकुलाः इतस्ततो यायिनः
पटूपदा येध्विति । चलितपत्राणामग्निशिखातुल्यत्वात् पट्पदानां च धूमतुल्यत्वात्
सधूमदीप्ताग्निरुचीनीत्युक्तम् ॥
 
३० - विम्बाऽऽगतैस् तीर-वनैः समृद्धिं
निजां विलोक्या॑ऽपहृतां पयोभिः ॥
कूलानि सऽऽमर्षतये॑व तेनुः
 
सरोज लक्ष्मी स्थल- पद्म-हासैः ॥ ३ ॥
 
·K
 
विम्बेत्यादि – बिम्बं प्रतिबिम्बं तेनागतैर्निपतितैरिति । तृतीयेति योग -
भागात् समासः । तीरवनैः कुसुमितैरित्यर्थात् । तैः करणभूतैः । पयोभिः
कर्तृभिः समृद्धिं विभूतिं निजामात्मीयां अपहृतां विलोक्य कूलानि कर्तृभू
तानि सामर्पतयेव साक्षमतयेव सरोजलक्ष्मीं कमलशोभां पयः सम्बन्धिन तेनुः
विस्तारितवन्ति । '२२६० । अत एकहलमध्ये । ६॥४॥२०।' इत्यादिना एखा-
भ्यासलोपौ । कूले सरोजासम्भव इति चेदाह-स्थलपद्महासेरिति स्थल-
कमलविकासरित्यर्थः ॥
 
३१-निशा-तुषारैर् नर्व॑ना॒ऽम्बु-कल्पैः
पत्रा - ऽन्त - पर्यागलद्च्छ-बिन्दुः ॥