2023-02-15 17:23:10 by ambuda-bot
This page has not been fully proofread.
भट्टिकाव्ये – चतुर्थी तित-काण्डे लक्षण-रूपे नवमो वर्गः,
जनयति विजयं सदा जनानां
M
717 युधि सुसमाहितमैश्वरं यथा ऽखम्.॥ ३२॥
'इदमित्यादि – इदं महाकाव्यम् । उक्तेर्वचनस्य यो मार्गः पन्थाः सुसंस्कृत-
शब्दलक्षणः प्रपञ्चितः तेन चित्रं विस्मयनीयम् । सुसमाहितं अलङ्कारयुक्तम् ।
अधिगतं परिज्ञातं सज्जनानां विवदिपतां वक्तुमिच्छतां वदतां च वक्तुं प्रवर्तमा
नानां सदा विजयं जनयति । सन्निबन्धात् शोभनबन्धात्कारणात् । यथास्त्र -
वरं पाशुपतम्। अधिगतमुक्तिमार्ग अधिगतः प्राप्तः प्रज्ञातो मोचनमार्गः क्षेपण -
मार्गो येन । चित्रं नानावर्णकेन चित्रितत्वात् । सुसमाहितं युधि संग्रामे विजयं
विदधाति तद्वत् ॥
४७८
तस्मादादरः कर्तव्य इति तत्रापि य एवं व्याकरणमधीतवान् तस्यैवात्रादरो
युक्त इति दर्शयन्नाह -
१६२३ - दीप तुल्यः प्रवन्धो ऽयं शब्द-लक्षण-चक्षुषाम् ॥
हस्ता sमर्प इवा ऽन्धानां भवेद् व्याकरणाते. ३३
दीपतुल्य इत्यादि - अयं प्रबन्धो महाकाव्यसंज्ञकः । प्रवध्यते विरच्यत
इति कृत्वा । शव्दलक्षणमेव चक्षुर्येषां तेषां दीपतुल्यः । अत गवैतत्काव्याधि
गमात् स्वातन्त्र्येणान्यानपि शब्दान् प्रयोक्तुं क्षमत्वात् । व्याकरणाहते विना हस्ता-
मर्ष इवान्धानां हस्तामर्प इवावबोधः यथा अन्धानां हस्तेन वटपटादिवत् ।
स्वपरामृश्यसंस्थानमात्रपरिज्ञानं यथावस्थितस्वरूपपरिज्ञानं एवमनधीतव्याकर-
णानां न शब्दस्वरूपपरिज्ञानं अन्यत्र शब्दश्रवणात् ततश्च तत्स्वरूपापरिज्ञानात्
कुतोऽप्यन्यशब्दप्रयोग इति ॥
एवं च कृत्वा विदुपोऽनुरुध्यमानेन मयेदं काव्यं कृतमिति दर्शयन्नाह -
१६२४ - व्याख्या गम्यमिदं काव्य-
मुत्सवः सु-धियार्मलम् ॥
,
हता दुर्-मेधसश् चा ऽस्मिन्
विद्वत्- प्रिय तया मया ॥ ३४ ॥
व्याख्यागम्यमित्यादि व्याख्यागम्यं व्याख्यानाद्विना बोद्धुं न शक्यते ।
किमर्थमीशं कृतमिति चेत् उत्सवः सुधियामलं शास्त्रे क्षुण्णबुदीनां परं प्रमोदो
वायते । एवं च सत्यस्मिन् काव्ये विषयभूतदुर्मेधसो व्याकरणबाह्याः मया हता
तानुगृहीताः । तस्माद्विद्वत्मियतया विद्वांसः प्रिया यस्य मम विवत्प्रियः तद्भाव.
रस्वत्ता तया हेतुभूतयेति ॥