This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'अयोध्या प्रत्यागमनं' नाम द्वाविंशः सर्गः – ४७७
 
सह मातृभिः हनूमता च सह । अयं नत्रः अनुद्धवः 'समीपं मे नाथ आगतः '
इति तर्याणां निःस्वनेन सकलं लोकं मार्गप्राप्तं समापूरयन् व्यानुवन् करिणां
च गिरीन्द्रसदृशाम् । '४२९। यदादिपु दृशः– ।३।२।१०।' इति चकारात् छिन् ।
विक्रान्तैः पादन्यासैः क्ष्मां कम्पयन् सर्वतो विधूनयन् । 'क्षमापयन्' इति
पाठान्तरम् । तत्र '२५७० । अर्तिी ।७।३।२६।' इत्यादिना पुकू । सम्प्राप्तः
रामसमीपमित्यर्थः ॥
 
१६२० - अथ स-सम्भ्रम - पौर-जना ऽऽवृतो
भरत-पाणि-धृतोज्ज्वल-चामरः ॥
गुरु-जन - द्विज - बन्ध॒भिनन्दितः
प्रविशति स्म पुरं रघु-नन्दनः ॥ ३० ॥
 
अथेत्यादि – अथ भरतसम्प्रायनन्तरं रघुनन्दनो रामः ससम्भ्रमेण साद-
रेण सहर्पेण पौरजनेनावृतः । भरतपाणिना धृतमुज्ज्वलं चामरं यस्य । गुरुजनेन
द्विजैर्वन्दिमिश्च स्तुतिपाठकैरभिनन्दितोऽभिष्टुतः सन् पुरमयोध्यां प्रविशति स्न
प्रविष्टः ॥
 
१६२१ - प्रविधाय धृतिं परां जनानां
युवराजं भरतं ततोऽभिषिच्य ॥
जघटे तुरगाऽध्वरेण यष्टुं
 
कृत सम्भार - विधिः पतिः प्रजानाम् ॥ ३१ ॥
 
-
 
प्रविधायेत्यादि – प्रविश्य च पुरं प्रजानां पती रामः जनानां धृतिं प्रीति-
रूपचेतोवृत्तिं परामुत्कृष्टां प्रविधाय कृत्वा भरतं च युवराजमभिषिच्य ततोऽन-
न्तरम् तुरगाध्वरेणाश्वमेधेन यष्टुं जघटे चेष्टितवान् । कृतसम्भारविधिः । संभ्रियत
इति सम्भारः द्रव्यगण इत्यर्थः । कृतोऽनुष्टितः सम्भारस्य विधिरितिकर्तव्यता-
लक्षणो येन स इति ॥
 
नायकाभ्युदयान्तं महाकाव्यमिति परिसमापय्य तत्र जयमिच्छता अस्मिन्ना-
दरः कर्तव्य इति दर्शयन्नाह -
 
१६२२ - इदम॑धिगत- मुक्ति मार्ग - चित्रं
 
विवदिषतां वदतां च सन् - निबन्धात् ॥
 
१ – द्रुतविलम्बितवृत्तम् । ' द्रुतविलम्बितमाह नभौ भरौ ।" इति लक्षणात् ॥