This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके सीता-परिणयो नाम द्वितीयः सर्गः-
तदस्य १७७२ । प्रयोजनम् १५११११०९।' इति ठञ् । '४७० । ढिड्डाणञ्-
।४।१।१५।' इत्यादिना ङीप् ॥
 
२७ - अथ जगदुरनीचै— राशिषस् तस्य विप्रास,
तुमुल कल- निनादं तूर्यमांजघ्नुर॑न्ये, ॥
अभिमत-फल-शंसी चार पुस्फोर वाहुस्,
तरुषु चुकुवुरु॑च्चैः पक्षिणश् चोऽनुकूलाः ॥
 
अथेत्यादि-
- तस्य रामस्य व्रजतो विप्रा अनीचैर्महता ध्वनिनाशिष इष्टव-
चगाने जगदुर्गदितवन्तः । अन्ये वादकास्तूर्य कांस्यतालपटहादिसमूहमाजघ्नु -
स्ताडितवन्तः । '२६९५ । आङो यम-हनः ॥।३।२८।' इत्यात्मनेपदं न भवति ।
अकादत्यनुवर्तते । तुमुलो महान्कलो मधुरो निनादो ध्वनिर्यस्येति ।
अभिमतमिष्टं फलं शंसितुं शीलं यस बाहोः स चारु पुस्फोर सुतरां स्फुरित-
वानू । अत्र दक्षिणो बाहुः सामर्थ्याद्गम्यते स्वाङ्गत्वात् । अनेन सीताप्राप्ति-
बीजमुपन्यस्तम् । स्फुरतैरभ्यासस्य २२५९। शर्पूर्वाः खयः ।७।४।६११' इति
खयः शेषः। चर्त्वम् । पक्षिणश्च तरुपु स्थिता अनुकूलाः सन्त उच्चैः सुष्टु चुकुवुः
कूजितवन्तः । '१११५॥ कु शब्दे इत्यस्य लिट: फिवाढुवङादेशः ॥
 
इति श्री जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री-भट्टिकाव्ये -
प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे प्रथमः परिच्छेदः (वर्गः ),
तथा लक्ष्य रूपे कथानके श्री राम-संभवो नाम
प्रथमः सर्गः पर्यवसितः ।
 
4
 
द्वितीयः सर्गः-
इदानीं विजिगीषूणां कण्टकान् समुद्धर्तु शरत्काले समुद्योग इति तमेव
वर्णयन्नाह
--
 
१९
 
२८ - वनस्पतीनां सरसां नदीनां
 
तेजस्विनां कान्तिभृतां दिशां च ॥
निर्याय तस्याः स पुरः समन्ता-
च्छ्रियं दधानां शरदं ददर्श ॥ १ ॥
 
१ - पद्येऽस्मिन्वृत्तं पूर्वो ( २६ ) क्तम् । २ – २०७१ । पारस्कर
प्रभृतीनि च संज्ञायाम्
२।१।१५७॥ पारस्करः, तस्करः, बृहस्पतिः, वनस्पतिः ॥ इति वै० भ० । '३५४ । वानस्पत्यः
इलैः पुष्पाव, तैर-पुष्पाद् वनस्पतिः ॥ इति ना० अ० ।