This page has not been fully proofread.

४७६ भट्टि काव्ये – चतुर्थे तिअन्त-काण्डे लक्षण-रूपे नवमो वर्गः,
१६१८ - स्थानं नः पूर्व-जानामि॑ियम॑धिकर्मसौ
प्रेयसी पूरयोध्या,
 
दूराददा॑लोक्यते या हुत-विविध-हविः-
प्रीणिता ऽशेष - देवा ॥
 
सो ऽयं देशो, रुदन्तं पुर जनम॑खिलं
यत्र हित्वा प्रयातौ,
 
आवां सीते ! वना॒ ऽन्तं सह धृत धृतिना
लक्ष्मणेन क्षपा॒ऽन्ते ॥ २८ ॥
 
स्थानं न इत्यादि — हे सीते ! असौ पुरी नोऽस्माकं पूर्वजानां स्थानमधिकं
अतएव च प्रेयसी प्रियतमा । दुरादालोक्यते उच्चप्रासादयोगात् । या हुतैविवि-
धैर्हृविर्भिराज्यादिभिः ग्रीणिता अशेपदेवा यत्र देशे। पुरजनभखिलं समस्तं रुदन्तं
क्षपान्ते उपसि हित्वा त्यक्त्वा छलेन आवां वनान्तं प्रयातौ सोऽयं देशः सह
•लक्ष्मणेन धृतधृतिना धृतसौमनस्येन ॥
 
१६१९ - तूर्याणामंथ निःस्वनेन सकलं
 
लोकं समापूरयन्
 
विक्रान्तैः करिणां गिरीन्द्र-सदृशां
क्ष्मां कैम्पयन् सर्वतः ॥
 
सा ऽऽनन्दा॒ऽश्रु-विलोचनः प्रकृतिभिः
सार्धं सहा ऽन्तः पुरः
 
सम्प्राप्तो भरतः स-मारुतिरलं
 
नम्रः समं मातृभिः ॥ २९ ॥
 
तूर्याणामित्यादि – अथानन्तरं भरतो हनूमतः समुपलब्धरामवृत्तान्तत्वात्
सानन्दाविलोचनः सानन्दाश्रुणी विलोचने यस्य तथाभूतः प्रकृतिभिः अमा-
स्यादिभिः सार्ध । सहान्तःपुरः अन्तःपुरेण समम् । मातृभिः कौसल्यादिभिः
 
१ - स्रग्धरावृत्तम् 'मर्थानां त्रयेण त्रिभुनियतियुता स्नग्धरा कीर्तितेयम्'
वे लक्षणात् । २ - शार्दूलविक्रीडितवृत्तम् । लक्षणमुक्तम् । ३ – 'क्ष्मापयन्' इति
 
पाठान्तरम् ।