2023-02-15 17:23:09 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'अयोध्या प्रत्यागमनं' नाम द्वाविंशः सर्गः - ४७५
१६१५ - सेतुं, महेन्द्रं, मलयं स - विन्ध्यं,
स- माल्यवन्तं गिरिमृष्यमूकम् ॥
स- दण्डकारण्य -वर्ती च पम्पां
रामः प्रियायाः कथयन् जगाम ॥ २५ ॥
सेतुमित्यादि - एष सेतुस्त्वदर्थे मया कारितः । एते च महेन्द्रादयः इत्यादि
प्रियायाः सीतायाः कथयन् जगाम । अयोध्याभिमुखं गतवान् ॥
१६१६ - एते ते मुनि जन-मण्डिता दिगन्ताः,
शैलोऽयं लुलित वनः स चित्रकूटः ॥
३
गङ्गेयं सु-तनु- ! विशाल- तीर-रम्या,
मैथिल्या रघु-तनयो दिशन् ननन्द ॥ २६ ॥
एते इत्यादि – शोभना तनुः शरीरं यस्याः सा त्वं हे सुतनु ! क्वचिदुकारान्त-
मपि स्त्रियः प्रोक्तमिति वचनात् नदीसंज्ञकत्वात् सम्बुद्धिस्वत्वम् । 'कृषिचमित-
निसर्जिमजिभ्यः' इत्यौणादिकस्तनुशब्दः । एते दिगन्ता मुनिजनैस्तन्निवासिभिर्म-
ण्डिताः भूपिताः । अयं स चित्रकूटः यत्र भरतेनागम्य दृष्टोऽस्मि । लुलितवनोऽ-
स्मद्वेगवशात् । इयं च गङ्गा विशालतीरतया रम्या । एवं मैथिल्या दिशन् कथ-
यन् ननन्द मुदितः ॥
१६१७ - शिञ्जान भ्रमर-कुलाऽऽकुलाऽग्र - पुष्पाः
शीता- ऽम्भः- प्रविलय - संप्लव ऽभिलीनाः ॥
एते ते सु-तनु ! पुरी जनोपभोग्या
दृश्यन्ते नयन- मनोरमा वना ऽन्ताः ॥२७॥
शिक्षानेत्यादि – हे सुतनु ! एते वनान्ताः पुर्या दृश्यन्ते । शिक्षानैः कूजद्भिः
भ्रमरकुलै: आकुलाग्राणि पुष्पाणि येषां वनान्तानाम् । प्रविलीयतेऽस्मिन्निति प्रवि-
लयः । '३२३१॥ एरच् ।३।३।५६॥ निमिलीभ्यां खलचोः प्रतिषेधो वक्तव्यः ।
८ २५०९। विभाषा लीयतेः ।६।१॥५१॥ इत्यात्वं न भवति । शीताम्भसः प्रवि-/
लयः कुल्या तेन यः संप्लवः स्नापना तेनाभिलीना: कुल्यया सिञ्चमानमूलत्वात्
अत एव नयनमनोरमाः रमयतीति कर्तर्यच् । पश्चात् षष्ठीसमासः । एवं च पुरी
जनानामयोध्या निवासिनां उपभोग्याः ॥