This page has not been fully proofread.

"
 
४७४ अट्टि-काव्ये
– चतुर्थी तिङन्त-काण्डे लक्षण-रूपे नवमो वर्गः,
१६११ एवं युवां मम प्रीत्यै कल्झास्थः कपि-राक्षसौ ! ॥
गन्तुं प्रयतितासाथे प्रातः सह मया यदि ॥ २१ ॥
नैवमित्यादि श्लोकद्वयम् – हे कपिराक्षसौ ! प्रातर्मया सह गन्तुं यदि
प्रयतितासाथै यत्नं कर्तास्थः । एवं सति युष्मद्विरहदुःखेन वयं न व्यावनितास्महे
न पीडिता भवितास्मः । कर्मणि लुट् । चिण्वदि । 'संयोजितास्महे' इति पाठा-
न्तरम् । न संयोजिता भवितास्मः । युजेर्ण्यन्तस्य चिण्वदिट् । इटोऽसिद्धत्वात्
८२३३३ । णेरनिटि । ६ । ४ । ५१।' इति णिलोपः । भवयां च वियोगजः श्रवः खेदो
नानुभविता । अत्रापि चिण्वदि । एवं मम प्रीत्यै युवां कल्पास्थः सम्पादितास्थः ।
२३५१ । लुटि च कृपः ।१।३।९३ । इति तङभावपक्षः । '२३५२ । तासि च
क्लृपः ।७।२।६० ।' इतीप्रतिषेधः । कृषि सम्पद्यमाने चतुर्थी ।
१६१२ - उक्तवन्तौ ततो रामं वचः पौलस्त्य-वानरौ
 
अनुग्रहो ऽयं काकुत्स्थ ! गन्तास्वो यत् त्वया सह. २२
उक्तवन्तावित्यादि — ततोऽनन्तरं पौलस्त्यवानरौ विभीषणसुग्रीवौ रामं वच
उक्तवन्तौ । हे काकुत्स्थ ! त्वया सह यदावां गन्तास्व: गमिष्याव: अयमनुग्रहः
प्रसाद इति ॥
 
१६१३ - अनुमन्तास्वहे नाऽऽवां भवन्तं विरहं त्वया ॥
 
अपि प्राप्य सुरेन्द्र-त्वं, किं नु प्रत्तं, त्वया ऽऽस्पदम् ॥
अनुमन्तावहे इत्यादि - किं च सुरेन्द्रत्वं देवेन्द्रत्वं प्राप्तावप्यावां त्वया
सह भवन्तमुत्पद्यमानं विरहं वियोगं नानुमन्तास्महे किं पुनस्त्वया प्रत्तं दृत्तम् ।
'३०७८। अच उपसर्गात्तः ।७।४।४७ । आस्पदं राज्यं प्राप्तवन्तौ । अत्र सुतरामेव
त्वया सह वियोगो न युज्यते । भवन्तं विरहमिति वर्तमानकालः नानुमन्तास्वह
इति भविष्यत्कालेन सम्बध्यमानः साधुर्भवति '२८२४ । धातुसम्बन्धे प्रत्ययाः
।३।४।१।' इति । एतावल्लुडिलसितम् ॥
 
अथ सर्गभङ्गार्थ छन्दोन्तरेण तच्छेपभूतमर्थवशात् प्रकीर्णकक्रियाविलसितं
दर्शयन्नाह --
 
१६१४ - ततः कथाभिः समतीत्य दोषा-
मा॑रुह्य सैन्यैः सह पुष्पकं ते ॥
सम्प्रस्थिता वेग शार्द-गाधं
 
प्रक्षोभयन्तः सलिलं पयोधेः ॥ २४ ॥
 
·
 
तत इत्यादि — कथामिरनन्तरोक्ताभिः दोषां रात्रिं समतीत्य प्रेरयित्वा ततो-
स्तरं ते रामादयः पुष्पकं विमानमारुह्य सैन्यैः सह भयोध्यां यातुं संप्रस्थिताः ।
योधेः सलिलमगाधमक्षोभ्यमपि वेगवशात्प्रक्षोभयन्तः ॥