This page has not been fully proofread.

5
 
तथा लक्ष्य रूपे कथानके 'अयोध्या प्रत्यागमन' नाम द्वाविंशः सर्गः-
:–४७३
१६०५ - आख्यातासि हतं शत्रुमु॑भिषिक्तं विभीषणम् ॥
सुग्रीवं चा ऽर्जितं मित्रं, सर्वाश चाऽऽगामुकान् द्रुतम्
आख्यातासीत्यादि — हतं शत्रुं रावणं लङ्कायामभिषिक्तं विभीषणं अर्जितं
मित्रं च सुग्रीवं विशिष्टमाख्यातासि कथयितासि । सर्वाश्चास्मान् द्रुतमागामुकान्
आगमनशीलान् ॥
 
१६०६ - गन्तारः परमां प्रीतिं पौराः श्रुत्वा वचस् तव ॥
 
3
 
ज्ञात्वैतत् सम्मुखीनश् च समेता भरतो ध्रुवम् १६
गन्तार इत्यादि — स्वद्वचनं श्रुत्वा पौरा: पौरजना परमां प्रीतिं गन्तारो
गमिष्यन्ति । एतन्मदागमनवृत्तान्तं श्रुत्वा सम्मुखीनः प्रतिविम्बाश्रय इव सम्मुखो
भूत्वा मामेवागमिष्यति भरतो ध्रुवमसंशयम् ॥
 
१६०७ गते त्वयि पथा ऽनेन वयमध्यंहितास्महे ॥
 
लब्धाहे ऽहं धृतिं प्राप्ते भूयो भवति सम्मुखे ॥१७॥
गत इत्यादि — त्वयि पथा अनेन मयाभिहितेन गते वयमपि अंहितास्महे
प्रयातास्मः 'अहि गतौ । भूयश्च पुनरपि भवति त्वयि सम्मुखे प्राप्ते धृतिमहं
लब्धाहे प्राप्तोस्मि । '२२५० । ह एति ।७।४।५२।' इति तासि सकारस्य हकारः ॥
 
१६०८ गते तस्मिन् गृहीताऽर्थे रामः सुग्रीव-राक्षसौ ॥
 
उक्तवान् श्वो ऽभिगन्तास्थो युवां सह मया पुरम्. १८
गते तस्मिन्नित्यादि - तस्मिन् हनूमति गृहीतार्थे अवगतसन्देशार्थे गते सति
रामः सुग्रीवराक्षसावुक्तवान् । युवां मया सह श्वो दिने अभिगन्तास्थः पुरम-
योध्यां गमिष्यथः ॥
 
१६०९ - द्रष्टास्थस् तत्र तिस्रो मे
 
मातृस् तुष्टाऽन्तराऽऽत्मनः ॥
आत्यन्तीनं सखित्वं च
 
प्राप्तास्थो भरता ऽऽश्रयम् ॥ १९ ॥
द्रष्टास्थ इत्यादि – तत्र च पुनः पुर्या नोऽस्माकं तिस्रो मातृः कौसल्याद्याः ।
स्वस्त्रादित्वान्न ङीप् । शसि प्रथमयोः पूर्वसवर्णदीर्घत्वम् । तुष्टान्तरात्मनः हृष्टमा-
नसाः द्रष्टास्थः । भरताश्रयं च भरतनिबन्धनं च सखित्वं मित्रत्वं आत्यन्तीनं
"अत्यन्तं गामीत्यस्मिन्नर्थे ' १८१२ । अवारपार - ।५।२।११।' इत्यादिना खः । प्राप्तास्थः
लब्धासाथे ॥
 
१६१० -नैवं विरह-दुःखेन वयं व्याघानितास्महे ॥
 
15
 
श्रमो ऽनुभविता नैवं भवद्भ्यां च वियोग-जः ॥२०॥