This page has not been fully proofread.

४७२ भट्टि - काव्ये -- चतुर्थे तिङन्त-काण्डे लक्षण-रूपे नवमो वर्गः,
 
गाहितासे ऽथ पुण्यस्य
 
गङ्गां मूर्तिमिव द्रुतम् ॥ ११ ॥
 
w
 
स्यन्त्वेत्यादि – अथानन्तरं या गङ्गा दिवः स्वन्त्वा स्यन्त्वा स्रुत्वा स्रुत्वा ।
'३३४३ । आभीक्ष्ण्ये णमुल च । ३ । ४।२२।' इति चकारात् क्त्वा च आभीक्ष्ण्ये च द्वे
भवतः । शम्भोर्मूर्ध्नि स्कन्त्वा गत्वा क्षितिं गता । '३३२१ । क्त्विस्कन्दियन्दोः
।६।४।२१।' इत्यनुनासिकलोपप्रतिषेधः । तां पुण्यस्य मूर्तिमित्र द्रुतां [ द्रवरूपेण
स्थिताम् ] गाहितासे स्त्रातुं विलोडितासि ॥
 
१६०२ - तमसाया महा-नील-पापाण-सदृश - त्विषः ॥
 
वना॒ऽन्तान् बहु मन्तासे नागराऽऽक्रीड-शांखिनः ॥
तमसाया इत्यादि- तमसायाश्च नद्याः वनान्तान् वनोपकण्ठान महानी-
लमणेस्तुल्यत्विपोऽतिनीलत्वात् । नागराणां आक्रीडो रन्तव्यं तत्साक्षिणः बहु
मन्तासे श्लावितासे ॥
 
१६०३ - नगर-स्त्री-स्तन-न्यस्त - धौत-कुङ्कुम-पिञ्जराम् ॥
 
विलोक्य सरयूं रम्यां गन्ता ऽयोध्या त्वया पुरी. १३
नगरेत्यादि — नगरस्त्रियः अयोध्यास्त्रियः तासां स्तनेषु यत्पूर्वन्यस्तं पश्चा-
हौतं कुङ्कुमं तेन पिञ्जरां कपिशां अत एव रम्यां सरयूं विलोक्य अयोध्या पुरी
 
त्वया गन्ता गन्तव्या ॥
 
१६०४ - आनन्दितारस् त्वां दृष्ट्वा
प्रष्टारश् चावयोः शिवम् ॥
मातरः सह मैथिल्या,
 
तोष्टा च भरतः परम् ॥ १४ ॥
 
·
 
आनन्दितार इत्यादि — अयोध्यायां च त्वां दृष्ट्वा मातरः कौसल्याद्याः
आनन्दितार: आनन्दिप्यन्ति । आवयोश्च रामलक्ष्मणयोः सह मैथिल्या शिवं
कल्याणं प्रष्टारः प्रश्नं करिष्यन्ति । भरतश्च श्रुत्वा परमत्यर्थ तोष्टा प्रीतिं कर्ता ।
आमन्त्रितार इति पाठान्तरम् । तत्रानित्यण्यन्ता इति दर्शनं तेषां णिज् न
भवति । अन्यथा ' २३१३ । णेरनिटि ।६।४।१५३।' इति णिलोपो न प्राप्नोति ।
ततश्चामन्त्रयितार इति स्यात् । अथवा आमन्त्रणमामन्त्र इति घमन्तादाचारे
सर्वप्रातिपदिकेभ्य इति क्विप् । तदन्तात्तासेरिद्र । अतोलोपे च रूपम् । सह
पैथिल्योरिति पाठान्तरम् । तत्रापि बहुव्रीहौ ' ८३३ । नयृतश्च ।५।४।१५३।' इति
पून भवति समासान्तविधिरनित्य इति कृत्वा ॥
 
१ - 'गङ्गां मूर्तिमिव द्रुतम्' इति पाठान्तरम् । २- 'आक्रीड- साक्षिणः' इति पाठान्तरम् ।