2023-02-15 17:23:09 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य रूप कथानक अयोध्या प्रत्यागमन' नाम द्वाविशः सर्गः –४७१
स्यदं जवं न सहितारः न सहिष्यन्ते । '३१८६ । स्यदो जवे ॥४॥२८।' इत्यनु
नासिकलोपो निपात्यते ॥
-
१५९६ - द्रष्टासि प्रीति - माना॑रात् सखिभिः सह सेविताम् ॥
स-पक्षपातं किष्किन्धां पूर्व-क्रीडां स्मरन् मुहुः ॥६॥
द्रासीत्यादि – किष्किन्धां च आरात् नातिदूरे इष्टासि । प्रीतिमान् जात-
प्रीतिः सन् सखिभिर्मित्रैः सह सेवितां अनुभूतां एवं च कृत्वा पूर्वक्रीडां स्मरन्
मुहुः । शेषत्वेन विवक्षितत्वात् षष्ठी न भवति । सपक्षपातं सानुरागमिति
क्रियाविशेषणम् ॥
१५९७ - त्वया सन्दर्शितारौ ते माल्यवद्-दण्डका-वने ॥
उपद्रुतश् चिरं द्वन्द्वैर् ययोः क्लिशितवान॑हम् ॥७॥
त्वयेत्यादि - माल्यवान् पर्वतः दण्डकावनं दण्डकेति नामकमरण्यं ते त्वया
सन्दर्शितारौ । कर्मणि लुट् । ययोर्माल्यवद्दण्डकावनयोः व्यवस्थितैः द्वन्द्वैः
सीतावियोगदुःखैः चिरमुपद्रुतोऽभिभूतः सन् अहं क्लिशितवान् पीडामनुभूत-
वान् । '३०४९। क्लृिशः क्त्वानिष्टयोः ।७।२।५० ।' इती । '३३२३ । मृडमृद-
-।१।२।७।' इत्यादिना कित्चम् ॥
१५९८ - आप्ठारौ भवता रम्यावा॑श्रम हरिणा॒ ऽऽकुलौ ॥
पुण्योदक - द्विजाऽऽकीर्णो सुतीक्ष्ण-शरभङ्गयोः ॥ ८ ॥
आप्तारावित्यादि – सुतीक्ष्णशरभङ्गयो रम्यावाश्रमी हरिणाकुलौ पुण्यरुद्
कैद्विजैः पक्षिभिश्चाकीण भवता आप्तारौ प्राप्तव्यौ ॥
१५९९ - अतिक्रान्ता त्वया रम्यं दुःखमंत्रेस् तपोवनम् ॥
पवित्र चित्रकूटे ऽद्रौ त्वं स्थातासि कुतूहलात् ॥९॥
अतिक्रान्तेत्यादि — अत्रेश्च तपोवनं रम्यत्वात् त्वया दुःखमतिक्रान्ता अति
क्रमितव्यम् । चित्रकूटे चानौ पवित्रे पुण्ये कुतूहलात् त्वं स्थातासि ॥
१६०० - ततः परं भरद्वाजो भवता दर्शिता मुनिः ॥
-
द्रष्टारश् च जनाः पुण्या यामुनाऽम्बुक्षतांऽहसः ॥
तत इत्यादि-
[- ततः चित्रकूटात्परं गच्छता भवता भरद्वाजो मुनिदर्शित
द्रष्टव्यः । जनाश्च पुण्या: यामुनाम्बुक्षतांहसः यमुनाजलस्य स्नानात्पानाञ्च क्षपि
तपापाः द्रष्टारो द्रष्टव्या वा । चिण्वदिव च ॥
१६०१ – स्यन्त्वा स्यन्त्वा दिवः शम्भोर्
मूर्ध्नि स्कन्त्वा भुवं गताम् ॥