This page has not been fully proofread.

४७० भट्टि- काव्ये – चतुर्थे तिङन्त-काण्डे लक्षण रूपे नवमो वर्गः,
 
द्वाविंशः सर्गः ।
 
इतः प्रभृति लुटमधिकृत्य विलसितमाह - तत्र भविष्यदनद्यतने लुटू ॥
१५९१ ततो रामो हनूमन्तर्मुक्तवान् हृष्ट-मानसम् ॥
 
'अयोध्यां श्वः प्रयातासि कपे ! भरत-पालिताम्. १
तत इत्यादि- -- ततः सीतासंशोधनानन्तरं रामो हनुमन्तं हृष्टमानसं स्वामि-
कार्यस्य निष्पादितत्वात् उक्तवान् । हे कपे ! श्वोदिने अयोध्यां भरतपालितां
प्रयातासि गन्तासि । '२१९१॥ तासस्त्योर्लोपः ॥७॥४॥५०॥ १ ॥
 
१५९२ - गाधितासे नभो भूयः स्फुटन्- मेघ-घटाऽऽवलि, ॥
ईक्षितासे ऽम्भसां पत्युः पयः शिशिर-शीकरम् ॥२॥
गाधितास इत्यादि — भूयः पुनरपि नभः गाधितासे प्रस्थातासे । 'गाट
प्रतिष्ठालिप्सयोः' इत्यनुदात्तेत् । त्वद्गमनवातात् स्फुटन्त्यः खण्डशो भवन्त्यः
मेघघटावलयो मेघपयो यत्र नभसि । अम्भसां पत्थुः समुद्रस्य पयः शिशि-
रशीकरं ईक्षितासे दृष्टासि ॥
 
१५९३ - सेवितासे प्लवङ्ग ! त्वं महेन्द्र ऽद्रेर॑धित्यंकाः ॥
 
.
 
व्युत्क्रान्त वर्त्मनो भानोः सह- ज्योत्स्ना - कुमुद्दती : ३
सेवितास इत्यादि — हे प्लवङ्ग ! भानोरादित्यस्य व्युत्क्रान्तवर्त्मनः अत्यु-
चस्वादतिक्रान्तमार्गस्य महेन्द्रादेः अधित्यकाः उपरिभागान् । कुमुद्वतीः विद्य-
मानकुमुदाः सह ज्योत्स्नया । पश्चाद्विशेषणसमासः । सज्योत्स्ना वा कुमुद्दत्यः
कुमुदाकरा यासु अधित्यकासु तास्त्वं सेवितासे अनुभवितासि । लवं गच्छतीति
खच्, एवं गच्छतीति कर्तरि अच् वा । 'उखडखी 'त्यत्र वागः पठ्यते ॥
१५९४ - चन्दन - द्रुम - संच्छन्ना निराकृत-हिम श्रथाः ॥
 

 
दर्शितारस् त्वया ताश च मलयोपत्यकाः शुभाः ४
 
चन्द नेत्यादि – ताश्च पूर्व दृष्टाः मलयोपत्यकाः मलयासन्नाः भुवः शुभाः
चन्दनद्रुमसंच्छन्नत्वात् । निराकृतहिमश्रथाः तिरस्कृतचन्द्राः । त्वया दर्शितारः
वो द्रष्टव्याः । कर्मणि लुट् । चिण्वदि चेति सकारलोपः । हिमं श्रद्धाति मुञ्च-
तीति हिमश्रथः चन्द्रः । 'श्रन्थ सेचनप्रतिहर्पयोः' इति कर्मण्यण् । ३१८७॥
अवोदैध- ।६।४।६९।' इत्यादिना अनुनासिकलोपो निपात्यते ॥
१५९५ प्रतन्व्यः कोमला विन्ध्ये सहितारः स्यदं न ते ॥
 
.
 
लताः स्तबक - शालिन्यो मधुलेहि कुलाऽऽकुला: ५
प्रतन्व्य इत्यादि – विन्ध्ये लताः स्तबकशालिन्यः सकुसुमस्तबकोपेताः
धुलेहिकुलाकुलाः भ्रमरकुलसङ्कलाः प्रतनुष्वात् कोमलत्वाच । गच्छतस्ते तव
११२ - ' ३४७। उपत्यकाऽद्रेरासन्ना भूमिरुर्ध्व मधित्यका ।" इत्यमरसिंहः ।