This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'सीता-संशोधनं' नामैकविंशतितमः सर्गः-४६९
 
शिखर - शिला डन्तराल - परिकृप्त- जला ऽवसरः
 
स-रस-फल- श्रियं स विततान सुवेल - गिरिः ॥ २१ ॥
भ्रमरेत्यादि – वरेण च स सुवेलगिरिः सरसां अभिनवां फलश्रियं विभूति
विततान विस्तृतवान् । भ्रमरकुलैराकुला व्याप्ता उल्वणाः सुगन्धयश्च सपुष्पास्त-
रखो यत्र गिरौ । तरुणानां अभिनवानां मधूकानां यः सम्भवः तेन पिशङ्गिता-
स्तुङ्गाः शिखाः शिखराणि यन्त्र । शिखरशिलानामन्तरालेपु परिकृता जलावसरा
जलाधारा यत्र । जलमपसरत्येभ्य इति '३२३२ । ऋोरप् ।३।३।५७॥ ॥
१५८९ - संवाद्भिः स कुसुम रेणुभिः समीरै-
रानवैर् बहु-फल- धारिभिर् वना॒ ऽन्तैः ॥
त्र्योतद्भिर् मधु-पटलैश च वानराणाम्
आप्यानो रिपु-वध-सम्भवः प्रमोदः ॥ २२ ॥
संवाद्भिरित्यादि सम्भवत्यस्मादिति सम्भवः । रिपुवधः सम्भवो यस्य
प्रमोदस्य स वानराणामाप्यानः वृद्धिं गतः । व्यवस्थितविभापाविज्ञानात् सोप-
सर्गस्य प्यायतेः पीभावो न भवति । '३०१९ । आदितश्च ।८२४५॥ इति
निष्ठानत्वम् । कैराप्यानः समीरैः सकुसुमरेणुभिः संवाद्भिः वहद्भिः । वनान्तैः
फलभरधारिभिः । अत एवानम्रैः । मधुकरपटलैः व्योतद्भिः मध्वित्यर्थात् ॥
१५९० - आयान्त्यः स्व-फल-भरेण भङ्गुरत्वं
 
भृङ्गाऽऽली- निचय-चिता लतास् तरूणाम् ॥
सा ऽऽमोदाः क्षिति- तल-संस्थिताऽवलोप्या
भोक्तॄणां श्रमम॑दयं न नीतवत्यः ॥ २३ ॥
इति भट्टि-काव्ये तिङन्त-काण्डे लङ्-प्रदर्शनो
नाम एकविंशति-तमः सर्गः ॥
 
आयान्त्य इत्यादि — तरूणां लताः स्वफलभरेण भङ्गुरत्वं सुभेद्यत्वमायान्त्यः
गच्छन्त्यः । सामोदाः अतएव भृङ्गालीनिचयचिताः । क्षितितलसंस्थितैरेवावलोतुं
शक्याः।भोक्तॄणां कपीनां श्रमं चित्तकायक्लेशं उदयं वृद्धिं न नीतवत्यः । 'विनीतवत्यः'
इति पाठान्तरम् । उत्पूर्वादयतेः कर्तर्यंच् । वृद्धिमुपगच्छन्तं श्रममपनीतवत्य इत्यर्थः ॥
इति श्री-जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री भट्टिकाव्ये
चतुर्थे तिङन्त-काण्डे लक्षण-रूपेऽष्टमः परिच्छेदः ( वर्गः ),
तथा लक्ष्य-रूपे कथानके 'सीता-संशोधनं नाम
एकविंशतितमः सर्गः ॥ २१ ॥
 
१।२। - प्रहर्षिणीवृत्तम्- 'नौजौगस्त्रिदशयतिः प्रहर्षिणीयम्' इति लक्षणात् ।
 
भ० का० ४०